Book Title: Kumtahivish Janguli Mantra
Author(s): 
Publisher: Pravinchandra Amrutlal Shah

View full book text
Previous | Next

Page 24
________________ कुमताहि॥११॥ , ओषनियुक्तिसूत्रे इत्यादि बहुष्वागमेषु दृश्यमानत्वात्तव को भवान् मतिमोह इति ॥ विषयुक्ति जाङ्गुली मन्त्र॥ तथा च भवन्मतमूलं प्रवचनपरीक्षाकृदप्याह-तत् श्रृणु-"अपञ्चक्खाणकिरिया तयभावे वि य न देसविरईणं । नारंभकियारंभे पवट्टमाणाण सुमुणीण" ४४ गाथा । अस्या गाथाया ग्रन्थकृतः स्वोपज्ञावृत्तिलिीव्यते-देशविरतानां श्रावकाणा तदभावेऽपि क्वचिदेकादशविरतिरधिकृत्य प्रत्याख्यानाभावेऽपि च अप्रत्याख्यानक्रिया न भवति । यतः-तत्थ णं जे ते संजयासंजया तेसिणं आदिमाओ तिन्नि किरियाओ कजंति' इति भगवत्या प्रश्रमशतके द्वितीयोद्देशके । अत्रारंभिकी १ पारिग्रहिकी २ मायाप्रत्ययिकी ३ अप्रत्याख्यानिकी ४ मिथ्यादर्शनप्रत्ययिकी ५ चेति । पंचक्रियाणां मध्ये आदिमास्तिस्रः आरंभिकी १ पारिग्रहिकी २ मायाप्रत्ययिकी चेति ३ तत्रैकादशनामविरतीनामप्रत्याख्यानेऽपि , अप्रत्याख्यानक्रियाया अनुदयो भणितः । तथा च पुनरर्थे अप्यर्थे वा सुमुनीनां शोभना मुनयः साधवस्तेषां अप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानकं यावदारंभे प्रवर्तमानानामप्यारंभिकी क्रिया न भवति । यदागमः-तत्थ णं जे ते अपमत्तसंजया तेसि णं पगा मायावत्तिया किरिया कम्जइति भगवत्यां प्रथमशतके द्वितीयोद्देशके इत्यादि प्रवचनपरीक्षायां ४४ गाथाया विस्तरः ॥ GRECRUKRIOR SARKARAN अन्यच्च प्रवचनपरीक्षा कृत्वा यत् श्रीविजसेनसूरिभिरप्रमाणीकृतं सर्वज्ञशतकं चकार तत्रामर्ष एव हेतुरवसेयो नान्यो हेतुरतोऽमर्षस्य कारणं लिख्यते- भट्टारकपुरन्दरभट्टारकरीहीरविजयसूरिभिः शास्त्रविरुद्धपंचजल्पजल्पनविषये मिथ्यादुःकृतं बलादापित:

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33