Book Title: Ketlik Aetihasik Aprakat Krutio Author(s): Suyashchandravijay, Sujaschandravijay Publisher: ZZ_Anusandhan View full book textPage 4
________________ फेब्रुआरी २०११ १०७ १. रत्नप्रभसूरिस्तोत्रम् ॥६०॥ श्रीमद्प्रभसूरिसद्गुरुभ्यो नमः ॥ वामेयपट्टे शुभदत्तनामा, तच्छिष्यजातो हरदत्तमुख्यः । आर्याम्बुधिः-केशि-स्वयंप्रभोऽपि, सूरीशरत्नप्रभू(भु)लब्धिपात्रम् ॥१॥ भव्यावलीकमलकाननराजभृङ्ग, श्री(श्रे)यःप्रवृत्ति(त्त)मुनिमानसराजहंसम् । श्रीपार्श्वनाथपदपङ्कजचञ्चरीकं, रत्नप्रभुगणधरं सततं स्तवीमि ॥२॥ विद्याधरेन्द्रपदवीकलितोऽपि कामं, श्रीमत्स्वयं प्रभुगिरः परिपीय योऽत्रः(त्र) । दीक्षावधूमुदवहन्मुदमादधानो, रत्नप्रभुस्स दिशतात् कमलाविलासम् ॥३॥ मन्त्रीश्वरो(रा)ऽऽहडसुतो भुजगेन दष्टः, सञ्जीवितः सकललोकसभासमक्षम् । यस्यांऽह्रिवारिरुहपुष्करसिञ्च(सेच)नेन, रत्नप्रभुस्स दिशतात् कमलाविलासम् ॥४॥ मिथ्यात्वमोहतिमिराणि विधूय येन, भव्यात्मनां मनसि तिग्मरुचेव विश्वे । सन्दशितं सकलदर्शनतत्त्वरूपं, रत्नप्रभुस्स दिशतात् कमलाविलासम् ॥५॥ येनोपकेशनगरे गुरुदिव्यशक्त्या, कोरण्टके च विदधे महती प्रतिष्ठा । श्रीवीरबिम्बयुगलस्य वरस्य येन, रत्नप्रभुस्स दिशतात् कमलाविलासम् ॥६॥ श्रीसत्यिका भगवती समभूत् प्रसन्ना, सर्वज्ञशासनसमुन्नतवृद्धिकी । यद्देशनारसरहस्यमवाप्य सम्यक्, रत्नप्रभुस्स दिशतात् कमलाविलासम् ॥७॥ गृह्णन्ति यस्य सुगुरोर्गुरुनाममन्त्रं, सम्यक्त्वतत्वगुणगौरवगर्भिता ये । तेषां गृहे प्रतिदिनं विलसन्ति पद्मा, रत्नप्रभुस्स दिशतात् कमलाविलासम् ॥८॥ कल्पद्रुमः करतले सुरकामधेनु-श्चिन्तामणिः स्फुरति राज्यरमाऽभिरामा । यस्योल्लसत्क्रमयुगाम्बुजपूजनेन, रत्नप्रभुस्स दिशतात् कमलाविलासम् ॥९॥ इत्थं भक्तिभरेण देवतिलकश्चातुर्यलीलागुरोः, श्रीरत्नप्रभुसूरिराजसुगुरोः स्तोत्रं करोति स्म यः । प्रातः काम्य(व्य)मिदं पठत्यविरतं, तस्याऽऽलये सर्वदा सानन्दं प्रमदेव दीव्यतितरां साम्राज्यलक्ष्मीः स्वयम् ॥१०॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14