Book Title: Ketlik Aetihasik Aprakat Krutio
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
View full book text
________________
फेब्रुअरी २०११
धर्मलक्ष्मीर्यत्परान् वादिनो जयति तत्साम्प्रतं अधुना साम्प्रतं युक्तम्, अन्याऽपि धर्मस्य - धनुषो लक्ष्मीः परान् - वैरिणो जयति ।
५.
मोहभूमिरुहमाथदन्तिनीं, साधुसाररसवारिवाहिनीम्' । मङ्गलावलिलतावसुन्धरां, संनुवामि सततं महत्तराम् ॥९॥ १. साधूनां सारः-उत्कृष्टो रसो शान्तरसः, स एव वारि-पानीयं, तस्य वाहिनीं - नदीम् ।
विश्वविसारिविशालयशः श्रीः १, सर्ववशांवरिवर्यवरांह्निः । संवरशस्यशरीरविलासा, सेह शिवाय सुशीललया वः ॥१०॥ [पञ्चवर्गपरिहारकाव्य]
१. विश्वे विसारिणी - प्रसरणशीला विशाला - विस्तीर्णा यशः श्रीर्यस्याः । २. सर्ववशाभिः - स्त्रीभिर्वरिवर्यौ-सेव्यावंही यस्याः ।
३. संवरेण शस्यः शरीरविलासो यस्याः सा ।
पूज्या: के जगतां ब्रवीति कृपणः, किं मार्गणैर्मार्गितौ ?, धातोस्त्यादिविभक्तिषु स्फुटतरं, का साध्यते शाब्दिकैः ? । धन्यैः कोऽर्थिषु दीयते सुनृपतेः, सेना भवेत् कीदृशी ?, कीद्ग् भाति महत्तरा कविवरा, ज्ञानक्रियाराजिता ॥ ११ ॥
११५
या जैनक्रर्मवासिनी सुचरणांभोगं दधाती हया, पारं याति कदा गुरुर्गुरुमति - र्यस्या महिम्नोऽपि नो । सा निःसीमरुचिँर्विभाति हि सदा - रागस्थिति ४/५ बिभ्रती, गङ्गावद् गजराजवद् गगनवद्, गङ्गेयवद् गेयवत् ॥१२॥
१. जैनक्रमौ - वीतरागपादौ, गङ्गा पक्षे विष्णुपादौ ।
२. चरणं - चारित्रं, गज[पक्षे] पादाः ।
३. नि:सीमा रुचि:- सम्यक्त्वं यस्याः, गङ्गेο[गाङ्गेयपक्षे]रुचिः-कान्तिः ।
४. सदाऽरागस्थितिं-नीरागावस्थाम् ।
५. गेय (पक्षे ) श्रीरागाया पुर अरागास्तेषां स्थितम् ।
[प्रश्नोत्तरम् ]

Page Navigation
1 ... 10 11 12 13 14