Book Title: Ketlik Aetihasik Aprakat Krutio
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
View full book text
________________
११४
५. कालन्दिका - सर्वविद्या |
अनुसन्धान- ५४ श्रीहेमचन्द्राचार्यविशेषांक भाग - २
विशिष्टकाष्ठां प्रगुणैर्गुणैः श्रितां, सदापि चारित्रैभृतां निराश्रवाम् । भव्या ! भवाब्धि तरितुं तरीमिव श्रयध्वमेतां नितरां महत्तराम् ॥५॥
१. काष्ठाः- नियमाः, पक्षे काष्ठं-लकुटम् ।
२. गुणा:- क्षान्त्यादयः, पक्षे दवरकाः ।
३. सदापि चारित्रेण-सदाचारेण भृता, पक्षे च - पुनः, सदापि अरित्रै: - आउलकैर्भृता(?) । आश्रवः- पापद्वाराणि छिद्राणि च ।
४.
वरैर्गोभरैः कौर्मुदं भासयन्ती, हरन्ती तमः शैत्यैमुल्लासयन्ती । लसच्चन्द्रगच्छाम्बरे चन्द्रलेखा - वदाभाति सैषा सती प्राप्तरेखा ||६||
१. गौ:- वाणी, गावः किरणाश्च ।
२. कौ - पृथ्व्यां मुदं - हर्षं भासयन्ती - प्रकटयन्ती, पक्षे कुमुदानां समूहः कौमुदम् । ३. तम:- पापम्, अन्धकारं च ।
४. शीतस्य भावः शैत्यम् ।
हंसलीना सदा वै बुंधोपासिता, सद्विधैिर्वर्यशुभ्राम्बरोद्भासिता ।
सा प्रवीणोत्तरा राजते सारदा - ऽध्यक्षलक्षेव शास्त्रावली सारदा ॥७॥ हंसा: - परमात्मा, राजहंसश्च ।
१.
२. वै-निश्चितं बुधैः- विद्वद्भिरुपासिता, पक्षे विबुधानां - देवानां समूहो वैबुधम् ।
३. विधि:-आचारः, ब्रह्मा च । वर्याः शुभ्राम्बराः-श्वेताम्बराः तेषूद्भासिता - प्रकटिता, क्षे वर्यं श्रेष्ठं शुभ्रं श्वेतम्, अम्बरं - वस्त्रं [ यस्या: सा ] |
४. प्रवीणेषु - विद्वत्सु उत्तरा - उत्कृष्टा, पक्षे प्रकृष्टवीणया उत्तरा ।
५.
अध्यक्षलक्षा-प्रत्यक्षलक्षा सारदेव ।
शुद्धवंशोद्भवा सङ्गृहीताऽऽशये, सुक्षमाभृद्भिरुद्यद्गुर्णं भ्राजिता । यज्जयत्यत्र सत्कोटिशिष्टा परान्, धर्मलक्ष्मीश्च तत्साम्प्रतं साम्प्रतम् ॥८॥
[द्व्यर्थकाव्यानि]
१. शुद्धो वंश उपकेशरूपः पक्षे वंशः ।
२. क्षमाभृद्भिः-साधुभि: आशये - चित्ते गृहीता । पक्षे [क्षमाभृद्भिः ] राजभिः शये - हस्ते
गृहीता ।
३. गुणा:- क्षमादय: [ पक्षे गुणो ज्या]
४. सत्कोटिषु-उत्तमकोटिषु शिष्टा, पक्षे सत् - प्रधानम्, कोटि: अग्रविभागम् ।

Page Navigation
1 ... 9 10 11 12 13 14