Book Title: Kavyanushasanam Satikam Author(s): Kashinath Sharma Publisher: Kashinath Sharma View full book textPage 9
________________ कुमारपालराज्यसमयस्तु-- ओं नमः शिवाय । ब्रह्माद्वैतधिया मुमुक्षुभिरभिध्यातस्य वद्धाक्षरै रिच्छाशक्तिमभिष्टवीमि जगतां पत्युः श्रुतीनां निधेः । या व्यापारितसंहृतेः स्वसमये ब्रह्माण्डपिण्डैर्नवैः __ क्रीडन्ती मणिकन्दुकैरिवं सदा खच्छन्दमाह्लादते ॥ . गीर्वाणैर्वीतगर्व दनुजपरिभवात्प्रार्थितस्त्रायकार्थ __वेधाः संध्यां नमस्यन्नपि निजचुलुके पुण्यगङ्गाम्बुपूर्णे । सद्यो वीरं चुलुक्याह्वयमसृजदिमं येन कीर्तिप्रवाहैः __ पूतं त्रैलोक्यमेतन्नियतमनुहरत्येव हेतोः फलं श्रीः ॥ वंशः कोऽपि ततो बभूव विविधाश्चर्यैकलीलास्पदं ___ यस्माद्भूमिभृतोऽपि वीतगणिता(णना): प्रादुर्भवन्त्यन्वहम् । छायां यः प्रथितप्रतापमहतीं दधे विपन्नोऽपि स न्यो जन्यावधि सर्वदापि जगतो विश्वस्य दत्ते फलम् ॥ वंशस्यास्य यशःप्रकाशनविधौ निर्मूल्यमुक्तामणिः क्षोणीपालकिरीटकल्पितपदः श्रीमूलराजोऽभवत् । यो मूलं कलिदावदग्धनिखिलन्याय[मोत्पादने __ यो राजेव करैः प्रकामशिशिरैः प्रीति निनाय प्रजाः ॥ यश्चापोत्कटराजराज्यकमलां स्वच्छन्दवन्दीकृतां __ विद्वद्वान्धवविप्रबन्दिभृतकव्यूहोपभोग्यां व्यधात् ।। यत्खड्गाश्रयिणीं तदा श्रियमलं युद्धस्फुरद्विक्रम- . . क्रीताः सर्वदिगन्तरक्षितिभुजां लक्ष्म्याश्चिरं भेजिरे ॥ सूनुस्तस्य बभूव भूपतिलकश्चामुण्डराजाह्वयो यद्गन्धद्विपदानगन्धपवनाघ्राणेन दूरादपि । विभ्रश्यन्मदगन्धभन्मकरिभिः श्रीसिन्धुराजस्तथा नष्टः क्षोणिपतेर्यथास्य यशसां गन्धोऽपि निर्णाशितः ॥ तस्माद्वल्लभराज इत्यभिधया मापालचूडामणि जज्ञे साहसकर्मनिर्मितचमत्कारः क्षमामण्डले। . यत्कोपानलजृम्भितं पिशुनयत्येतत्प्रयाणश्रुति क्षुभ्यन्मालवभूपचक्रविकसन्मालिन्यधूमोद्गमः ॥ ___. ... मूलराजराज्यम्-वि० सं० ९९३-१०५३. २. चामुण्डराजराज्यम्-वि. सं १०५३-१०६६.Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 376