Book Title: Karn Kutuhal
Author(s): Bholanath Jain
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 39
________________ कर्णकुतूहलम् झषध्वजस्य किं यतः शिलीमुखाः समन्ततः पतन्ति सव्यसाचिनः खरा अतिप्रतापिनः ॥३२।। पद्म केचन सुधियः केचन मीनी लपन्ति विद्वांसः । भवतो नयने नयने तनुतः किल कौतुकानि यतः ॥३३॥ अधरः किमु विद्रुमोऽरुणः किमु बिम्बं भवतीव सुभ्र वः । अमरोऽपि नरोऽपि वा पिबन सुकृती मन्दतरः कथं भवेत् ॥३४॥ धरतीति धरो भवत्यसावधरः कि मम संशयो महा [७ B] न् । कथयन्ति न ते बुधाः सखे ह्यपवर्गः कथमस्य पानतः ।।३।। कर्णावेतौ भावविज्ञौ रसज्ञ हष्ट्वा चेतो याति वक्तु मदीयम् । कूपावेतो तत्र मीनौ पतन्तौ ज्ञात्वा भूयो द्वारदेशे यतिष्ठत् ॥३६।। द्विजाः किं तस्या वागमतपदपण्यैकनिलयाः सरोजास्ये दानप्रतिदिननिदानव्रतपराः । सुधांशोर्वा जाता द्विगुणितमयूखाश्च विशदाः कलाकौशल्यं वा रतिपतिकथाया गुणगिरां ॥३७॥ चिबुकं स्थलजातमम्बुजं तिलसंपर्कसमन्वितं प्रिये । अलिरेत्य पिबत्यसौ मधुप्रसभं तत्ससुखं यथारुचि ॥३८।। तव नासाचलमौक्तिकं प्रियेऽधरबिम्बे प्रतिबिम्बतां गतम् । किमु चञ्चुपुटेन तत्फलं चिनुते कीर उपेत्य सुद्रतः ॥३६॥ ग्रीवेयं तव बाले शङ्ख इवा ऽ भाति भूरि भ [ A] व्यतनुः ध्वनिमभिजातवामो ध्वनयति कामो जगद्विजयी ॥४०॥ किमु वक्षोजी बाले ! किमु खगगुच्छौ कनककलशौ किम् । श्रीफलरूपौ किमु वा भूधरवेषौ मुनी भवतः ॥४१॥ अतिमृदुलौ तव बाहू प्रियतमकण्ठस्य पाशौ । बध्नीतः कथमेतौ हृदयं तस्यातिसक्तस्य ॥४२॥ उदरं तव भाति सुन्दरं शुभरोमावलिसंयुतं स्तुतं । नयने मम खञ्जने प्रिये ससुखं तत्र च खेलतोऽनिशम् ।।४।।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61