Book Title: Karn Kutuhal
Author(s): Bholanath Jain
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 44
________________ कर्णकुतूहलम् अतीवकान्तं मुखमम्बुजाक्षि ते तथैव बिम्बाधर एष रोचते । परस्परं द्वावपि चारुचेष्टितैः क्रियाविलासं कुरुते स्म सस्पृहम् ॥२४॥ पपावासवं चारुवक्त्रेण साकं स्पृशन् वृत्तवक्षोजगुच्छौ विलासी। हसन् हासयल्लोलहप्रान्तवर्षी कलाकौतुकी कामदेवो हि साक्षात् ।।२।। अरालधम्मिल्लनिबद्धचित्तः कलाविलासैस्तव संगृहीतः। पिबामि वक्त्रेण समं मदालसे सुधासवं ते वचनामतैश्च ।।२६।। सत्यं प्राणसमासमानविलसत्कल्लोललीलारसप्रोद्यदामकुतूहलामलमिलत्क्रीडोल्लसन्मानसे । पश्यन्ती मृगबालदग्विलसितैर्मा दीनदान्तं प्रिये देहि प्रोद्धतकामशान्तिमधुना जाने त्वमेवौषधम् ॥२७॥ राज्ञी-किं महाराण [१३ A] कहीअदि दासी देह्मि । * राजा वारुणीपूर्ण पात्रं ददाति । सा पिबति स्म । अदायि राज्ञाऽपि पुनश्च पात्रं पपौ नपो नेत्रविलासकारी। एवं सरागौ सुखशालिवेषौ बभूवतुस्तौ मधुपानतो भृशम् ।।२८।। मुखं त्वदीयं कमलायते प्रिये मनो मदीयं भ्रमरायते तथा । कृतं हि संयोगविधानमेतयोर्विरचिना प्रेमनिबद्धचेतसोः ।।२६।। पीयते स्म सरसं मधु पत्या चुम्ब्य चुम्ब्य वदनं वनितायाः । तद्वदेव मकरध्वजबन्धोराननं जलजवज्जलजाक्ष्याः ॥३०॥ मा कुरु मानिनि मानं मानोऽयं विप्रलम्भहेतुरये । भ्र भङ्गस्तव कुटिलश्चेतो मे हन्त हन्तीव ॥३१॥ त्वं मे चेतसि विहरसि सरसं हंसी यथानिशं सरसि । बहिरपि त्वं मे भवसि [१३ B] प्रेयसि त्वं मे तदपि जाने ॥३२॥ इति प्रियोक्तं सरसं निशम्य लतेव वृक्ष सहसाऽबला सा। मणालदोा ससुखं स्ववक्षसा निपीड्य तस्यान्तरयांबभूव ॥३३॥ * किं महाराजेन कथ्यते । दासि देहि ।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61