Book Title: Karn Kutuhal
Author(s): Bholanath Jain
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 50
________________ वर्णकुतूहलम् पुत्री रात्रौ तु ससुखं सुस्गप प्रातरुदतिष्ठत् पश्यति स्म कुत्रागतास्मि केन नीतास्मि कस्य वा गृह मर धान्यस्य वाहमेव वान्या एव भवामि पुनः पुनरेवं शुशोच नानुकूलमदृष्टं मे प्रतिकूलं हि वर्तते । कुत आपतितं दुःखं प्रमाथि बलवच्च तत् ॥३३|| यदिदं मम भावि सर्वथा तदभावीति कथं घदाम्यहम् । स्ववशे न हि वर्तते जनः परकृत्य पर एव वेत्तितत् ।।३।। भवतु तावत् किं भविष्यति सुदृढं निश्चित्य खट्वायामेव स्थिताऽभवत् न किञ्चित कञ्चिदुवाच मुहूर्त । ततः सर्वतोऽवलोक्य दासीमुवाच, हंजे, किं स्वपिषि, उत्तिष्ठ, जलमानयेति श्रुत्त्वोदतिष्ठत् प्रणनाम च सदन्त [२०B] धावनं जलमानीतं तयाचावश्यकं कृतं, कृत्त्वा च शय्यायामेव स्थित [1] प्रहस्योवाच, 'निपुणे ! स्नास्येऽहं भरि जलमानीयता' दासी-यदाज्ञापयति भवती। जलं तया भूरि चानीतं ततः सा मनसि कुमारपत्नी भूत्वा सस्नौ । वस्त्रालङ्कारान परिदधौ नेत्रे अञ्जयित्वा ताम्बूलं च भुक्त्वा ससुखं स्थिताऽभवत् । ह (द्र) ष्टव्यम भविष्यतीति । ततः स भृत्यो निपुणामाहूय स्वर्णमुद्रां दत्तवान् ॥ सा निपुणा गृहीत्त्वा गुणवती दत्त्वाऽग्रं ह्यतिष्ठत् जगाद च 'राजपुत्रि ! देह्याज्ञां स्वर्णमुद्रां वणिज दत्त्वा प्रत्यहमशनार्थ यदानीयते तदानयामि ।' प्रहस्य गुणवत्युवाच 'निपुणे, वणिजमानय ।' सा तथैवाऽकरोत् ।। ततो घणिगागतः ।। गुणबती-निपणे, वद वणिज कति मु [२१A] द्रास्तव वसंति समीपे ता आनय, यावत् द्रव्यव्ययो जातस्तावत् गृहाण च । । बणिक् तथाकरोत् । ता पानीय गुणवतीमर्पितवान् । गुणवत्या व्ययभता दत्ता अवशिष्टा गृहान्तः स्थापिता । निपुणां चावदन् , 'निपुणे ! वणिजं औरय प्रतिम समशनार्थमानयान्नादि । [सा] तथैवाऽकरोत् । स वणिक् घृततन्दुलादि सामग्रीमानीतवान् । पुना रसवतीकरणार्थमेकां ब्राह्मणी गृहे स्थापयामास गृहं च सकलं लेपयामास धवलीचकार ।। तदुत्ता गुणवती निपुणामाह, 'अये, निपुणे राजकुमारमानय ॥ सांगीकृत्य जगाम, गत्त्वा च प्रणनाम, राजकुमार त्वामाहवयति राजनन्दिनी विज्ञप्ति च करोति अत्रानागतस्य भवत एक हायनो [२१B] गतः । कुमारः-निपुणे ! गच्छेदानीम्।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61