Book Title: Karmprakrutau Udirnakaranam Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 2
________________ कर्मप्रकृतिः प्रकृत्युदी ॥१॥ (मलय०)-तदेवमुक्त उद्वर्तनापवर्तने । सम्प्रत्युद्देशक्रमेणोदीरणा वक्तव्या। तत्र चैतेऽर्थाधिकाराः। तद्यथा-लक्षणं, भेदः, साद्यनादिप्ररूपणा, स्वामित्वं, उदीरणाप्रकृतिस्थानानि, तत्स्वामित्वं चेति । तत्र प्रथमतो लक्षणभेदयोः प्ररूपणार्थमाह-'जति। अत्र पूर्वाधेन लक्षणमभिहितमुत्तरार्धेन तु भेदः । तत्र यत्परमाण्वात्मकं दलिकं करणेन-योगसंज्ञकेन वीर्यविशेषेण कषायसहितेनासहितेन वा उदयावलिकाबहिर्वर्तिनीभ्यः स्थितिभ्योऽपकृष्योदये दीयते-उदयावलिकायां प्रक्षिप्यते एषोदीरणा । उक्तं च-" उदयावलियबाहिरिल्लठिईहिंतो कसायसहिएणं असहिएण वा जोगसन्नेण करणेणं दलियमाकढिय उदयावलियाए पवेसणं उदीरणत्ति”। सा च किंभृता? इत्यत आह-'प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागा। प्रकृतिस्थित्यनुभागप्रदेशैर्मूलप्रकृतिभिरुत्तरप्रकृतिभिश्च कृत्वा विभागो भेदो यस्याः सा तथा । इदमुक्तं भवति-सोदीरणा चतुर्विधा, तद्यथा-प्रकृत्युदीरणा, स्थित्युधीरणा, अनुभागोदीरणा, प्रदेशोदीरणा च । एकैकापि द्विधामूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयाऽटया, उत्तरप्रकृतिविषया चाष्टपञ्चाशदधिकशतभेदा ॥१॥ ___(उ०)-तदेवमुक्ते उद्वर्तनापवर्तने, अथोद्देशक्रमागतोदीरणा वक्तव्या । तत्र चैतेाधिकाराः-लक्षणं, भेदः, साधनादिप्ररूपणा, | स्वामित्वं, उदीरणाप्रकृतिस्थानानि, तत्स्वामित्वं चेति । तत्रादौ लक्षणभेदप्ररूपणार्थमाह-अत्र पूर्वार्धेन लक्षणमुत्तरार्धन च भेदोऽभिधीयते । तत्र यत्परमाण्वात्मकं दलिकं करणेन-योगसंज्ञवीर्यविशेषेण कषायसहितेन वा तद्रहितेन वा उदयावलिकाबहिर्वर्तिनीभ्यः | स्थितिभ्योऽपकृष्योदये दीयते उदयावलिकायां प्रक्षिप्यते एषोदीरणा। सा चतुर्विधा । तथाहि-प्रकृत्युदीरणा, स्थित्युदीरणा, अनुभागोदीरणा, प्रदेशोदीरणा च । पुनरैकैका द्विविधा-मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयाऽष्टधा, उत्तरप्रकृतिविषया चाष्टपश्चाशदधिकशतभेदा तथा चाह-'प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागा' प्रकृतिस्थित्यनुभागप्रदेशैर्मूलप्रकृत्युत्तरप्रकृतिभेदैश्चPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 212