Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 5
________________ पप्रकृतीनामित्यर्थः । उदीरणा द्विधा, तद्यथा-सादिरध्रुवा च । सा च साद्यध्रुवताऽध्रुवोदयत्वादेव सिद्धा ॥२॥ __(उ०) तदेवमुक्तो लक्षणभेदौ, अथ साधनादिमरूपणा कर्तव्या । सा च द्विधा-मूलोत्तरमकृतिविषयभेदात् । तत्र प्रथमतो मूलप्रकृतिविषयां तामाह-मूलप्रकृतिषु मध्ये पश्चानां ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणामुदीरणा 'त्रिधा'-त्रिप्रकारा, तद्यथाअनादिध्रुवाऽधुवा च । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां यावत्क्षीणमोहगुणस्थानकस्य समयाधिकावलिका नावशिष्यते, नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत्सर्वजीवानामुदीरणाऽवश्यंभाविनीति अनादिरेषामुदीरणा । ध्रुवाऽभव्यानां, अध्रुवा भव्यानामिति । तथा द्वयोर्वेदनीयमोहनीययोरुदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्बुवाऽधुवा च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं यावदुदीरणा, न परतः । मोहनीयस्य सूक्ष्मसम्परायगुणस्थानकं यावन्न परतः। ततोऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशा|न्तमोहगुणस्थानकाच प्रतिपततो मोहनीयस्योदीरणा सादिः, तत्तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाधुवे पूर्ववत् । आयुषः पुनरुदीरणा | सादिरध्रुवा च । तथाहि-आयुषः पर्यन्तावलिकायां नियमादुदीरणा न भवति ततोऽध्रुवा, परभवोत्पत्तिप्रथमसमय एव च भूयः प्रवर्तते ततः सादिरिति । तदेवं कृता मूलप्रकृतिषु साधनादिप्ररूपणा । अथोत्तरप्रकृतिषु तां विधित्सुराह-'दसुत्तर इत्यादि, उत्तरासामप्युत्तरप्रकृतीनामपि, दशोत्तरशतसंख्यानां-ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयमिथ्यात्वतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणान्तरायपञ्चकरूपाष्टचत्वारिंशद्वर्जसर्वशेषप्रकृतीनामित्यर्थः, उदीरणा सादिरधुवा च, सा च साद्यध्रुवताऽध्रुवोदयत्वादेव सिद्धा ॥२॥ इदाणि उत्तरपगतीणं सादिअणादिपरूवणत्थं भण्णतिमिच्छत्तस्स चउद्धा तिहाय आवरणविग्घचउदसगे । थिरसुभसेयर उवघायवज्जधुवबंधिनामे य ॥३॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 212