Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 6
________________ कल्पसूत्र सुबोधि० ॥२॥ "मुद्धजणछेत्तसुहवोह सस्स विदवणदक्खसमणीओ । ईईओवि य काओवि, अडंति धम्मं कहंतीओ ॥” व्याख्या - मुग्धजनाः खल्पबुद्धिलोकास्त एव क्षेत्राणि बीजवपनभूमयस्तेषु शुभबोधः प्रधानाशयः स एव सस्यं धान्यं तस्य विद्रवणं विनाशकरणं तत्र दक्षाः पटूव्यः प्राकृतत्वाच्चात्र विभक्तिलोपः श्रमण्य आर्यिका ईतय इव तिड्डाद्याः काश्चन न सर्वा अटन्ति ग्रामादिषु चरन्ति धर्मं दानादिकं कथयन्त्यो ब्रुवाणा इति गाथार्थः । एतदपि निराकर्त्तुमाह- " एगंतेणंविय तं, न सुंदरं जेण ताण पडिसेहो । सिद्धंतदेसणाए, कप्पट्टियएव गाहाए ॥” व्याख्या -- एकान्तेनैव सर्वथा तद्धर्मकथनं न नैव सुन्दरं भव्यं येन तासां साध्वीनां प्रतिषेधो निराकरणं सिद्धान्तदेशनाया आगमकथनस्य, कया प्रतिषेधः ? कल्पस्थितयैव गाथयेत्यर्थः । कल्पगाथामेवाह"कुसमयसुईण महणो, विबोहओ भवियपुंडरियाणं । धम्मो जिणपण्णत्तो, पकप्पजइणा कहेयवो ॥” व्याख्या -- कुसमयश्रुतीनां कुसिद्धान्तमतीनां मथनो विनाशको विबोधको विकाशको भव्यपुण्डरीकाणां मुक्तियोग्यप्राणिशतपत्राणां धर्मो दानादिको जिनप्रज्ञप्तो मुनीन्द्रगदितः प्रकल्पयतिना निशीथज्ञसाधुना कथयितव्यो वक्तव्यो न पुनः साध्व्येति हृदयमिति गाथार्थः ॥ ननु ? यदि तासां स दीयते ततोऽनिन्द्यं तद्धर्मकथनमित्याह । उपोद्घातः ॥२॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 622