Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 5
________________ दिसुश्लोकैः । समयश्चैषां - " रसनिधिरसशशिवर्षे, ज्येष्ठे मासे समुज्वले पक्षे । गुरुपुष्ये यत्नोयं, सफलो जज्ञे द्वितीयायाम् ॥” इति स्वकृतकल्पटीकाप्रशस्तिश्लोकात्सप्तदशशतीयो वैक्रमोन्दः सुप्रतीत एव । अस्य वाचने श्रावणे चाधिकारिणस्तत्रभवन्तः शुक्लमतयो यतय एव, तथैव शास्त्रेभिहितत्वात् । तथा चोपाध्यायविनयविजयपादाः "अथ तस्य श्रीकल्पस्य वाचने श्रवणे च अधिकारिणो मुख्यवृत्त्या साधु-साध्यस्तत्रापि कालतो रात्रौ विहित - कालग्रहणादिविधीनां साधूनां वाचनं श्रवणं च साध्वीनां च निशीथचूर्ण्याद्युक्तविधिना दिवापि श्रवणम् । तथा श्रीवीरनिर्वाणादशीत्यधिकनवशत ( ९८० ) वर्षातिक्रमणे मतान्तरेण च त्रिनवतियुतनवशत ( ९९३ ) वर्षातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्त्तस्य समाधिमा धातुमानन्दपुरे सभासमक्षं समहोत्सवं श्रीकल्पसूत्रं वाचयितुमारब्धं, ततः प्रभृति चतुर्विधोपि सङ्घः श्रवणेऽधिकारी । वाचने तु विहितयोगानुष्ठानः साधुरेव ॥” ये तु पण्डितंमन्या आर्यिकाणामप्यस्य वाचनं श्रावणं श्रमणवत् पट्टमधिरुह्योपदेशदानञ्च समर्थयन्ति श्रद्धया च शृण्वन्ति ते नूनमार्हतसमय रहस्यानभिज्ञा एव वेदितव्याः, पुरुषप्रधानं हि खलु जिनशासनं न तु स्त्रीधर्मप्राधान्यं तत्र, अत एव श्रीमल्लिनाथाधिपत्यमाश्चर्यान्तर्गतमावेदितं तत्त्वज्ञैरिति सुप्रसिद्धमेव । सूरिप्रवराः श्रीदेवसूरयोपीदमेवाधिकृत्य स्पष्टं जगुर्जीवानुशासने ग्रन्थरले । तथाहि

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 622