________________
कल्पसूत्र
प्रथमः
क्षण:
॥१॥
पात्रवसतिप्रमुखं तच्च प्रथमचरमजिनतीर्थे एकं साधु एकं साधुसमुदायं एकं उपाश्रयं वा आश्रित्य । सुबोधि० कृतं तत्सर्वेषां साध्वादीनांन कल्पते । द्वाविंशतिजिनतीर्थे तु यं साध्वादिकं आश्रित्य कृतं तत् तस्यैव ॥२॥
अकल्प्यं अन्येषां तु कल्पते इति द्वितीयः॥२॥ 11 तथा सिजायरत्ति । शय्यातरो वसतिस्वामी तस्य पिंडः अशन १ पान २ खादिम ३ खादिम ४
वस्त्र ५ पात्र ६ कंबल ७ रजोहरण ८ सूची ९ पिष्पलक १० नखरदन ११ कर्णशोधनक १२ लक्षणो द्वादशप्रकारः सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते अनेषणीयप्रसंगवसतिदौर्लभ्यादिब-16 हुदोषसंभवात् । अथ यदि साधवः समयां रात्रि जाग्रति प्रातः प्रतिक्रमणं च अन्यत्र कुर्वति तदा । मूलोपाश्रयस्वामी शय्यातरो न भवति यदि च तत्र निद्रायंति प्रतिक्रमणं च अन्यत्र कुर्वति तदा द्वौ अपि शय्यातरौ भवतः । तथा तृणडगलभस्ममल्लकपीठफलकशय्यासंस्तारकलेपादिवस्तूनि चारि-3 बेच्छुः सोपधिकः शिष्यश्च शय्यातरस्यापि ग्रहीतुं कल्पते इति तृतीयः॥३॥
रायपिंडत्ति । सेनापति १ पुरोहित २ श्रेष्ठि ३ अमात्य ४ सार्थवाहलक्षणैः पंचभिः सह राज्यं
॥
२
॥