SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र प्रथमः क्षण: ॥१॥ पात्रवसतिप्रमुखं तच्च प्रथमचरमजिनतीर्थे एकं साधु एकं साधुसमुदायं एकं उपाश्रयं वा आश्रित्य । सुबोधि० कृतं तत्सर्वेषां साध्वादीनांन कल्पते । द्वाविंशतिजिनतीर्थे तु यं साध्वादिकं आश्रित्य कृतं तत् तस्यैव ॥२॥ अकल्प्यं अन्येषां तु कल्पते इति द्वितीयः॥२॥ 11 तथा सिजायरत्ति । शय्यातरो वसतिस्वामी तस्य पिंडः अशन १ पान २ खादिम ३ खादिम ४ वस्त्र ५ पात्र ६ कंबल ७ रजोहरण ८ सूची ९ पिष्पलक १० नखरदन ११ कर्णशोधनक १२ लक्षणो द्वादशप्रकारः सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते अनेषणीयप्रसंगवसतिदौर्लभ्यादिब-16 हुदोषसंभवात् । अथ यदि साधवः समयां रात्रि जाग्रति प्रातः प्रतिक्रमणं च अन्यत्र कुर्वति तदा । मूलोपाश्रयस्वामी शय्यातरो न भवति यदि च तत्र निद्रायंति प्रतिक्रमणं च अन्यत्र कुर्वति तदा द्वौ अपि शय्यातरौ भवतः । तथा तृणडगलभस्ममल्लकपीठफलकशय्यासंस्तारकलेपादिवस्तूनि चारि-3 बेच्छुः सोपधिकः शिष्यश्च शय्यातरस्यापि ग्रहीतुं कल्पते इति तृतीयः॥३॥ रायपिंडत्ति । सेनापति १ पुरोहित २ श्रेष्ठि ३ अमात्य ४ सार्थवाहलक्षणैः पंचभिः सह राज्यं ॥ २ ॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy