________________
पालयन् मूर्द्धाभिषिक्तो यो राजा तस्य अशनादि चतुष्कं ४ वस्त्रं ५ पात्रं ६ कंबलं ७ रजोहरणं ८ चेति अष्टविधः पिंडः प्रथमचरमजिनसाधूनां निर्गच्छदागच्छत्सामंतादिभिः खाध्यायव्याघातस्या-14 पशकुनबुद्ध्या शरीरव्याघातस्य च संभवात् खाद्यलोभलघुत्वनिंदादिदोषसंभवाच्च निषिद्धः द्वाविंशतिजिनसाधूनां तु ऋजुप्राज्ञत्वेन पूर्वोक्तदोषाभावेन राजपिंडः कल्पते इति चतुर्थः ॥ ४॥ | किइकम्मत्ति । कृतिकर्म वंदनकं तत् द्विधा अभ्युत्थानं द्वादशावतं च तत्सर्वेषां अपि तीर्थेषु । साधुभिः परस्परं यथादीक्षापर्यायेण विधेयं । साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोपि साधुरेव वंद्यः पुरुषप्रधानत्वात् धर्मस्य इति पंचमः॥ ५॥ ___ वयत्ति । व्रतानि महाव्रतानि तानि च द्वाविंशतिजिनसाधूनां चत्वारि यतस्ते एवं जानंति यत् ५ अपरिगृहीतायाः स्त्रिया भोगासंभवात् स्त्री अपि परिग्रह एवेति परिग्रहे प्रत्याख्याते स्त्री प्रत्याख्यातैव प्रथमचरमजिनसाधूनां तु तथाज्ञानाभावात् पंच व्रतानि इति षष्ठः ॥ ६ ॥ जिदृत्ति । ज्येष्ठो रत्नाधिकः स एव कल्पो वृद्धलघुत्वव्यवहार इत्यर्थः तत्र आद्यांतिमजिनयतीनां
**ANARESOSTARS