________________
प्रथम:
क्षण:
॥१
॥
कल्पसूत्र-1 उपस्थापनातःप्रारभ्य दीक्षापर्यायगणना मध्यमजिनयतीनां च निरतिचारचारित्रत्वाद् दीक्षादिसबोधिनादेव । अथ पितापुत्रमातादुहितराजामात्यश्रेष्ठिवणिक्पुत्रादीनां सार्द्धं गृहीतदीक्षाणां उपस्थापने||
को विधिः? उच्यते यदि पित्रादयः पुत्रादयश्च समकमेव षटजीवनिकायाध्ययनयोगोद्वहना ॥३॥
र्योग्यतां प्राप्तास्तदा अनुक्रमेणैवोपस्थापना । अथ स्तोकं अंतरं तदा कियद्विलंबेनापि पित्रादीनामेव 5 प्रथममुपस्थापना अन्यथा पुत्रादीनां वृद्धत्वेन पित्रादीनां अप्रीतिः स्यात् । तथा पुत्रादीनां सप्रज्ञत्वेन है अन्येषां निष्प्रज्ञत्वेन महदंतरं तदा स पित्रादिरेवं प्रतिबोध्यः भो महाभाग ! स प्रज्ञोपि तव पुत्रः
अन्येभ्यो बहुभ्यो लघुर्भविष्यति तव पुत्रे ज्येष्ठे तवैव गौरवं एवं प्रज्ञापितः स यदि अनुमन्यते तदा । PIपुत्रादिः प्रथमं उपस्थापनीयः नान्यथा इति सप्तमः ॥७॥
पडिक्कमणेत्ति । अतिचारो भवतु मा वा परं श्रीऋषभवीरसाधूनां उभयं कालं अवश्यं प्रतिक्रमणं 8 18 कर्तव्यं एव । शेषजिनमुनीनां च दोषे सति प्रतिक्रमणं नान्यथा । तत्रापि मध्यमजिनयतीनां कार-18
णसद्भावेपि देवसिकरात्रिके एव प्रायः प्रतिक्रमणे नतु पाक्षिकचातुर्मासिकसांवत्सरिकाणि ।
॥३॥