________________
है कुंथु ८ वग्नौ ९ तथा सर्प १०, विहां कल्पतेऽन्यतः। २।” तथा एभिः कारणैश्चतुर्मासकात्परतोऽपि
स्थातुं कल्पते। “वर्षादविरते मेघे, मार्गे कर्दमदुर्गमे । अतिक्रमेपि कार्तिक्या-स्तिष्ठति मुनिसत्तमाः । ॥१।" एवं अशिवादिदोषाभावेपि संयमनिर्वाहार्थं क्षेत्रगुणा अन्वेषणीयास्तच्च क्षेत्रं त्रिविधं जघन्य १३ उत्कृष्टं २ मध्यमं ३ च । तत्र चतुर्गुणयुक्तं जघन्यं ते चामी-यत्र विहारभूमिः सुलभा आसन्नो 8 जिनप्रासाद इत्यर्थः १ यत्र स्थंडिलं शुद्धं निर्जीवं अनालोकं च २ यत्र खाध्यायभूमिः सुलभा अखाध्यायादिरहिता ३ यत्र भिक्षा च सुलभा ।४। त्रयोदशगुणं च उत्कृष्टं ते चामी । यत्र भूयान् कर्दमो है न भवति १ यत्र बहवः संमूच्छिमाः प्राणिनो न भवंति २ यत्र स्थंडिलं निर्दोष भवति ३ यत्र ? वसतिः स्त्रीसंसर्गादिरहिता ४ यत्र गोरसं प्रचुरं ५ यत्र जनसमवायो महान् भद्रकश्च ६ यत्र वैद्याश्च | भद्रकाः ७ यत्र औषधानि सुलभानि ८ यत्र गृहस्थगृहाः सकुटुंबा धनधान्यादिपूर्णाश्च ९ यत्र राजा भद्रकः १० यत्र ब्राह्मणादिभ्यो मुनीनामपमानं न स्यात् ११ यत्र भिक्षा सुलभा १२ यत्र स्वाध्यायः शुद्ध्यति १३।
कल्प.