Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 3
________________ अर्हम् प्रस्तावना । 400084 नमः सदा विगतद्विषे विश्ववेदिने वीराय । कः खलु सार्वज्ञशासनसुवासितस्वान्तसरोजः सकलशास्त्र शिरोमणित्वेन सम्पूर्णसमीहितसम्पादकत्वेन च सुविश्रुतस्यास्य श्रीकल्पसूत्रस्य भगवतस्सुप्रसिद्धमहिम्ना न समस्ति सुपरिचितः ? स्वमहिम्नाऽधरीकृतसुरद्रुम सुरधेन्वादिसकलवाञ्छितसम्पादकवस्तुस्तोमस्यास्य समुपादेयत्वं | समुपास्यत्वं सुतरामावश्यकत्वं च प्रतिवर्ष श्रेयोनिःश्रेयसासाधारणसाधनसम्यग्दर्शनज्ञानचारित्रनिदान पर्वाधिराजपर्युषणापर्वणि समाकर्ण्यमानतया सुविज्ञातं श्रद्धासंशुद्धशेमुषीशालिनां शिशूनामपि, यतस्ते - “यथा द्रुमेषु कल्पद्रुः, सर्वकामफलप्रदः । यथौषधीषु पीयूषं, सर्वरोगहरं परम् ॥ १ ॥ रत्नेषु गरुडोद्गारो, यथा सर्वविषापहः । मन्त्राधिराजो मन्त्रेषु यथा सर्वार्थसाधकः ॥ २ ॥ यथा पर्वसु दीपाली, सर्वात्मसु सुखावहा । कल्पः सद्धर्मशास्त्रेषु पापव्यापहरस्तथा ॥ ३ ॥ कल्पः पर्युषणाभिधः कलिमलप्रध्वंसबद्धादरः, कल्पः सर्वसमीहितोदयविधौ कल्पद्रुकल्पः कलौ । ये कल्पं परिवाचयन्ति भविकाः शृण्वन्ति ये चादरात्, ते कल्पेषु विहृत्य मुक्तिवनितोत्सङ्गे सदा शेरते ॥ ४ ॥ श्रीमद्वीरचरित्रबीजमभवच्छ्रीपार्श्ववृक्षाङ्कुरः, स्कन्धो नेमिचरित्रमादिमजिनव्याख्या च शाखाचयः । पुष्पाणि स्थविरव्रजस्य च कथोपादेयद्देयं तथा, सौरभ्यं फलमन्त्र निर्वृतिमयं श्रीकल्पकल्पद्रुमे ॥ ५ ॥ नाईतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुंजयात्तीर्थ, श्रीकल्पान्न परं श्रुतम् ॥ ६ ॥ पुण्यानामुत्तमं पुण्यं श्रुतानामुत्तमं श्रुतम् ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 426