Book Title: Kalpsutram
Author(s): Vinayvijay,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
+
+
पारणं दिव्यानि अष्टभवः
+
+
+
BARAMBIKASHASAMASTE
माइज घडसहस्सा अहवा माइज सागरा सव्वे । जस्सेयारिस लद्धी सो पाणिपडिग्गही होई ॥१॥ अत्र कविः-स्वाम्याह दक्षिणं हस्तं, कथं भिक्षां न लासि भोः । स प्राह दातृहस्तस्याधो भवामि कथं प्रभो! ॥२॥ यतः-पूजाभोजनदानशान्तिककलापाणिग्रहस्थापनाचोक्षप्रेक्षणहस्तकार्पणमुखव्यापारवद्धस्त्वहम् ।
इत्यभिधाय दक्षिणहस्ते स्थिते-वामोऽहं रणसम्मुखाङ्कगणनावामाङ्गशय्यादिकृत् , घृतादिव्यसनी त्वसौ | स तु जगौ चोक्षोऽस्मि न त्वं शुचिः ॥२ ॥ ततः-राज्यश्रीर्भवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु । इत्यब्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन् , प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायात् स वः श्रीजिनः ॥३॥ श्रेयांसस्य दानावमरे-नेत्राम्बुधारा वाग्दुग्धधारा धाराधरस्य च । स्पर्धया वर्द्धयामासुः, श्रीधर्मद्वं तदाशये ॥ ४ ॥ ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता, पञ्च दिव्यानि जातानि-वसुधारावृष्टिः १ चेलोत्क्षेपः २ व्योनि देवदुन्दुभिः ३ गन्धोदकपुष्पवृष्टिः ४ आकाशे अहो दानमहो दानमिति घोषणं च ५, ततः सर्वोऽपि लोकः ते तापसाश्च तत्र मिलिताः, अथ श्रेयांसस्तान् प्रज्ञापयति-भो जनाः सदगतिलिप्सया एवं साधुभ्य एषणीयाहारभिक्षा दीयते, इत्यस्यां अवसर्पिण्यां श्रेयांसोपझं दानं, 'स्वया एतत् कथं ज्ञातं' इति लोकैः पृष्टश्च स्वामिना सह स्वकीयं अष्टभवसंबन्धं आचष्ट, यदा स्वामीशाने ललिताङ्गस्तदाऽहं पूर्वभवे निर्नामिकानाम्नी स्वयंप्रभा देवी १ ततः पूर्व विदेहे पुष्कलावतीविजये लोहार्गले नगरे
१. १ मायुधंदाः सहवं अभवा, मायुः सागराः सर्वे । यस्यैतादशी सन्धिः स पाणिपतमाही भवति ॥१.
+

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398