________________
+
+
पारणं दिव्यानि अष्टभवः
+
+
+
BARAMBIKASHASAMASTE
माइज घडसहस्सा अहवा माइज सागरा सव्वे । जस्सेयारिस लद्धी सो पाणिपडिग्गही होई ॥१॥ अत्र कविः-स्वाम्याह दक्षिणं हस्तं, कथं भिक्षां न लासि भोः । स प्राह दातृहस्तस्याधो भवामि कथं प्रभो! ॥२॥ यतः-पूजाभोजनदानशान्तिककलापाणिग्रहस्थापनाचोक्षप्रेक्षणहस्तकार्पणमुखव्यापारवद्धस्त्वहम् ।
इत्यभिधाय दक्षिणहस्ते स्थिते-वामोऽहं रणसम्मुखाङ्कगणनावामाङ्गशय्यादिकृत् , घृतादिव्यसनी त्वसौ | स तु जगौ चोक्षोऽस्मि न त्वं शुचिः ॥२ ॥ ततः-राज्यश्रीर्भवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु । इत्यब्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन् , प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायात् स वः श्रीजिनः ॥३॥ श्रेयांसस्य दानावमरे-नेत्राम्बुधारा वाग्दुग्धधारा धाराधरस्य च । स्पर्धया वर्द्धयामासुः, श्रीधर्मद्वं तदाशये ॥ ४ ॥ ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता, पञ्च दिव्यानि जातानि-वसुधारावृष्टिः १ चेलोत्क्षेपः २ व्योनि देवदुन्दुभिः ३ गन्धोदकपुष्पवृष्टिः ४ आकाशे अहो दानमहो दानमिति घोषणं च ५, ततः सर्वोऽपि लोकः ते तापसाश्च तत्र मिलिताः, अथ श्रेयांसस्तान् प्रज्ञापयति-भो जनाः सदगतिलिप्सया एवं साधुभ्य एषणीयाहारभिक्षा दीयते, इत्यस्यां अवसर्पिण्यां श्रेयांसोपझं दानं, 'स्वया एतत् कथं ज्ञातं' इति लोकैः पृष्टश्च स्वामिना सह स्वकीयं अष्टभवसंबन्धं आचष्ट, यदा स्वामीशाने ललिताङ्गस्तदाऽहं पूर्वभवे निर्नामिकानाम्नी स्वयंप्रभा देवी १ ततः पूर्व विदेहे पुष्कलावतीविजये लोहार्गले नगरे
१. १ मायुधंदाः सहवं अभवा, मायुः सागराः सर्वे । यस्यैतादशी सन्धिः स पाणिपतमाही भवति ॥१.
+