________________
करप-सुबोव्या०७
॥१५२॥
COMCOACHAR
ततस्तौ कृतकृत्यौ स्वपित्रोर्भरतस्य च तं व्यतिकरं निवेद्य दक्षिणश्रेण्यां नमिः उतरश्रेण्यां विनमिश्च तस्थतुः॥ | भगवांश्चान्नपानादिदानाकुशलैः समृद्धिमद्भिर्जनैर्वस्त्राभरणकन्यादिमिनिमन्त्र्यमाणोऽपि योग्यां भिक्षां अल-दानस्य भमानोऽदीनमनाः कुरुदेशे हस्तिनागपुरे प्रविष्टः, तत्र च आवश्यकवृत्त्यनुसारेण बाहुबलिसुतसोमप्रभसुतः यांसोपज्ञता श्रेयांसो युवराजा, स च मया श्यामवर्णो मेरुरमृतकलशेनाभिषिक्तोऽतीव शोभितवानिति स्वप्नं दृष्टवान्, १५ सुबुद्धिनामा नगरश्रेष्ठी, सूर्यमण्डलात् सस्तं किरणसहस्रं पुनः श्रेवांसेन तत्र योजितं ततस्तदतीवाशोभत इति स्वप्नमैक्षत, राजापि स्वप्ने महापुरुष एको रिपुबलेन युध्यमानः श्रेयांससहायाजयी जात इति ददर्श, त्रयोऽपि प्राप्ताः सभायां, सम्भूय स्वप्नान् परस्परं न्यवेदयन् , ततो राज्ञा कोऽपि श्रेयांसस्य महान् लाभो भावीति निर्णीय विसर्जितायां पर्षदि श्रेयांसोऽपि स्वभवने गत्वाह गवाक्षस्थः स्वामी न किञ्चिल्लातीति जनकोलाहलं श्रुत्वा स्वामिनं वीक्ष्य च मया कापीदृशं नेपथ्यं दृष्टपूर्व इतीहापोहं कुर्वन् जातिस्मरणं प्राप, अहो अहं पूर्वभवे भगवतः मारथिर्भगवता सह दीक्षां गृहीतवान् , तदा च वज्रसेनजिनेन कथितमासीद यदयं वज्रनाभो भरतक्षेत्रे प्रथमो जिनो भावीति स एष भगवान् , तदानीमेव तस्यैको मनुष्यः प्रधानेक्षुरसकुम्भसमूहप्राभृतमादाय आगतः, ततोऽसौ तत्कुम्भमादाय भगवन् ! गृहाणेमां योग्यां भिक्षामिति जगाद, भगवताऽपि पाणी प्रसारितो, निसृष्टश्च तेन सर्वोऽपि रसा, न चात्र बिन्दुरप्यधः पतति, किन्तूपरि शिखा वर्द्धते, यत: