________________
CHAUD HAWALACES
| भगवांस्तु मौनी न किमपि प्रतिवक्ति, ततस्ते कच्छमहाकच्छौ प्रति विज्ञप्तिं चक्रुः, तौ अपि ऊचतुः-यत्र वयमपि आहारविधिं न जानीमः, पूर्व तु भगवान् न पृष्टः, इदानीं आहारं विना तु स्थातुं न शक्यते, भरतल
नमिविन जया गृहेऽपि गन्तुं अयुक्तं, ततो विचार्यमाणो वनवास एव श्रेयान् इति विचार्य भगवन्तं, एव ध्यायन्तो म्योर्विद्यागङ्गातटे परिशटितपत्राथुपभोगिनोऽसंस्कृतकेशकूर्चा जटिलास्तापसा जज्ञिरे ॥
धरत्वम् इतश्च कच्छमहाकच्छसुतौ भगवता पुत्रत्वेन प्रतिपन्नौ नमिविनमिनामानौ देशान्तरादागतो, भरतेन दीयमानं राज्यभाग अवगणय्य पितृवचसा भगवत्समीपमागत्य प्रतिमास्थिते भगवति नलिनीपत्रैर्जलमानीय सर्वतो ममिसिश्चनं जानुप्रमाणं कुसुमोच्चयं च कृत्वा पश्चाङ्गप्रणामपूर्वकं-राज्य भागप्रदो भवेति प्रत्यहं विज्ञपयन्तौ जिनं सिषेवतुः तो चान्यदा तथा वीक्ष्य वन्दनार्थमागतो धरणेन्द्रो भगवद्भक्त्या सन्तुष्टोऽवादीत्-भो ! भगवान् निःसङ्गो |मा भगवन्तं याचेथां,भगवद्भक्त्याऽहमेव युवाभ्यां दास्यामीति भणित्वा अष्टचत्वारिंशत्सहस्रसङ्गयाका (४८०००) विद्याः तत्र गौरी-गान्धारी-रोहिणी-प्रज्ञप्तिलक्षणाश्चतस्रो महाविद्याश्च पाठसिद्धा एव दत्तवान् , यच्चोक्तं किरणा. वलीकारेण 'अष्टचत्वारिंशत्सङ्घथाका (४८) इति' तदयुक्त, आवश्यकवृत्तौ अष्टचत्वारिंशत्सहस्राणां (४८०००) उक्तत्वात्, अथ विद्या दत्त्वा उक्तवांश्च 'इमाभिर्विद्याधरद्धिप्राप्तौ सन्तौ स्वजनं जनपदं च गृहीत्वा यातं युवां वैताढथे नगे दक्षिणविद्याधरश्रेण्यां गौरेयगान्धारप्रमुखानष्टौ निकायान् रथनूपुरचक्रवालप्रमुखाणि पश्चाशनगराणि उत्तरश्रेण्यां च पण्डकवंशालयप्रमुखानष्टौ निकायान् गगनवल्लभप्रमुखाणि च षष्टिनगराणि निवास्य विहरतमिति,
ROCCASIRSAGAAAAEHAR