Book Title: Kalpsutram
Author(s): Vinayvijay,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
कल्प. सूबोव्या० ९
॥१८०॥
ग्रहं वाच्याः, समग्रस्य च सुत्रस्य अयं भावः - यावत्योऽन्नस्य पानकस्य वा दत्तयो रक्षिता भवन्ति तावत्य एव तस्य कल्पन्ते, न तु परस्परं समावेश कर्त्तुं कल्पते, न च दत्तिभ्योऽतिरिक्त ग्रहीतुं कल्पते, ( कष्पड़ से तद्दिवसं तेणेव भत्तद्वेणं पजोसवित्तए) कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन अवस्थातुं ( नो से कप्पड़ दुश्चपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य कल्पते द्वितीयबारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ( २६ ) ॥
( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पड़ निग्गंधाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां वा ( जाव उवस्सयाओ सत्तघरंतरं संखडिं संनियहचारिस्स इत्तए) यावद् उपाश्रयादारभ्य सप्तगृहमध्ये संस्कृतिः - ओदनपाकः तां गन्तुं साधोर्न कल्पते, भिक्षार्थं तत्र न गच्छेदित्यर्थः, एतावता शय्यातरगृहं अन्यानि च षड् गृहाणि वर्जयेदिति तेषां आसन्नत्वेन साधुगुणानुरागितया उगमादिदोषसम्भवात् कीदृशानां साधूनां १ - सन्निवृत्तचारिणां - 'सन्निवदृत्ति निषिद्धगृहेभ्यः सन्निवृत्ताः सन्तः चरन्तीति तथा तेषां निषिद्धगृहेभ्योऽन्यत्र भ्रमतामिति भावः अत्र बहुत्वे एकत्वं, भिक्षार्थं गन्तुं, बहवस्त्वेवं व्याचक्षते - सप्तगृहान्तरे सङ्घडिं- जनसङ्कुलजेमनवारालक्षणां गन्तुं न कल्पते, अत्रार्थे सूत्रकृत् मतान्तरा व्याह - ( एगे पुण एवमाहंसु नो कप्पड़ जाव उवस्सयाओ परेण संखडिं संनियट्टचारिस्स इत्तए) एके पुनः एवं कथयन्ति नो कल्पते उपाश्रयादारभ्य परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थं गन्तुं
संखडीवर्ज
नविधिः
पू. २७
॥१८०॥

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398