________________
कल्प. सूबोव्या० ९
॥१८०॥
ग्रहं वाच्याः, समग्रस्य च सुत्रस्य अयं भावः - यावत्योऽन्नस्य पानकस्य वा दत्तयो रक्षिता भवन्ति तावत्य एव तस्य कल्पन्ते, न तु परस्परं समावेश कर्त्तुं कल्पते, न च दत्तिभ्योऽतिरिक्त ग्रहीतुं कल्पते, ( कष्पड़ से तद्दिवसं तेणेव भत्तद्वेणं पजोसवित्तए) कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन अवस्थातुं ( नो से कप्पड़ दुश्चपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य कल्पते द्वितीयबारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ( २६ ) ॥
( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पड़ निग्गंधाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां वा ( जाव उवस्सयाओ सत्तघरंतरं संखडिं संनियहचारिस्स इत्तए) यावद् उपाश्रयादारभ्य सप्तगृहमध्ये संस्कृतिः - ओदनपाकः तां गन्तुं साधोर्न कल्पते, भिक्षार्थं तत्र न गच्छेदित्यर्थः, एतावता शय्यातरगृहं अन्यानि च षड् गृहाणि वर्जयेदिति तेषां आसन्नत्वेन साधुगुणानुरागितया उगमादिदोषसम्भवात् कीदृशानां साधूनां १ - सन्निवृत्तचारिणां - 'सन्निवदृत्ति निषिद्धगृहेभ्यः सन्निवृत्ताः सन्तः चरन्तीति तथा तेषां निषिद्धगृहेभ्योऽन्यत्र भ्रमतामिति भावः अत्र बहुत्वे एकत्वं, भिक्षार्थं गन्तुं, बहवस्त्वेवं व्याचक्षते - सप्तगृहान्तरे सङ्घडिं- जनसङ्कुलजेमनवारालक्षणां गन्तुं न कल्पते, अत्रार्थे सूत्रकृत् मतान्तरा व्याह - ( एगे पुण एवमाहंसु नो कप्पड़ जाव उवस्सयाओ परेण संखडिं संनियट्टचारिस्स इत्तए) एके पुनः एवं कथयन्ति नो कल्पते उपाश्रयादारभ्य परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थं गन्तुं
संखडीवर्ज
नविधिः
पू. २७
॥१८०॥