Book Title: Kalpsutram
Author(s): Vinayvijay,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
विकृतचि. कित्सातपः संलेखनाविधिः म. १८-५१
RecSHAREKKISHAAES
विज्ञातशास्त्रार्थो २, दृष्टकर्मा ३ शुचि ४ भिषक् । बहुकल्पं १ बहुगुणं २, सम्पन्नं ३ योग्यमौषधम् ४॥२॥ अनुरक्तः१ शुचि २ दक्षो ३, बुद्धिमान् ४ प्रतिचारकः । आख्यो १ रोगी २ भिषग्वइयो ३, ज्ञायकः सत्त्ववानपि ४ ॥३॥ (आउहित्तए) कारयितुं, आउट्टिधातुः करणार्थे सैद्धान्तिकः (तं चेव सव्वं भाणिअव्वं) तदेव सर्व भणितव्यम् ।। (४२) ॥ (वासावासं पज्जोसविए भिक्खू इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् ( अन्नयरं ओरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महाणुभाषं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए) किश्चित् प्रशस्तं कल्याणकारि उपद्रवहरं धन्यकरणीयं मङ्गलकारणं सश्रीकं महान् अनुभावो यस्य तत तथा एवंविधं तपःकर्म आहत्य विहत्तु (तं चेव सव्वं भाणियब्वं) तदेव सर्व भणितव्यम् । (५०)। (वासावासं पज्जो सविए भिक्खू इच्छिन्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् , अथ कीदृशो भिक्षुः ?-(अपच्छिममारणंतियसं लेहणाजूसणाजूसिए) अपश्चिम-चरमं मरणं अपश्चिममरणं, न पुनः प्रतिक्षणमायुर्दलिकानुभवलक्षणं आवी चिमरणं, अपश्चिममरणमेवान्तस्तत्र भवा अपश्चिममरणान्तिकी, संलिख्यते-कृशीक्रियते शरीरकषायाद्यन येति संलेखना, सा च द्रव्यभावभेदभिन्ना 'चत्तारि विचित्ताई' इत्यादिका तस्या 'जुसणं ति जोषणं-सेवा |तया 'जुसिए' त्ति क्षपितशरीरः, अत एव (भत्तपाणपडियाइक्खिए ) प्रत्याख्यातभक्तपानः, अत एव (पाओव |गए कालं अणवकंखमाणे विहरित्तए वा) पादपोपगतः-कृतपादपोगमनः, अत एव कालं-जीवितकालं मरणकालं वाऽनवकाङ्क्षन्-अनभिलषन् विहर्तुमिच्छेत् (निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे निष्क्रमित

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398