Book Title: Kalpsutram
Author(s): Vinayvijay,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
क्रम. सूबोज्या० ९
॥१८१ ॥
हडिज्जा) कक्षायां वा समाहरेत् -- आच्छादितं कुर्यात्, एवं च कृत्वा (अहाछन्नाणि लेणाणि वा उबागेच्छिना) यथाच्छन्नानि - गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि गृहाणि उपागच्छेत् ( रुक्खमूलाणि वा उवागच्छिना) वृक्षमूलानि वा उपागच्छेत् (जहा से तत्थ पाणिसि दए वा दगरए वा दगफुसिया वा नो परिआवज्जइ) यथा तस्य तत्र पाणौ दकं बहवो विन्दवः दकरजो-बिन्दुमात्रं दगफुसिआ-फुसारं अवश्यायः न विराध्यन्ते पतन्ति वा, यद्यपि जिनकल्पिकादेर्देशोनदशपूर्वधरस्वेन प्रागेव वर्षोपयोगो भवति, त या चार्द्धभुक्ते गमनं न सम्भवति, तथापि छद्मस्थत्वात् कदाचिदनुपयोगोऽपि भवति ॥ ( २९ ) ॥ उक्तमेवार्थ निगमयन्नाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (पाणिपडिग्गहियस्स भिक्खुस्स) पाणिपात्रस्य भिक्षोः (जंकिंचि कणगफुसियमित्तंपि निवडति ) यत्किञ्चित् कणो-लेशंस्तन्मात्रं कं- पानीयं कणकं तस्य फुसिआ - फुसारमात्रं तस्मिन्नपि | निपतति (नो से कप्पड़ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य जिन| कल्पिकादेः कल्पते गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवष्टुं वा ॥ (३०) || उक्तः पाणिपात्रविधिः, | अथ पात्रधारिणो विधिमाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य [पडिग्गहधारिस्स भिक्खुस्स) | पात्रधारिणः - स्थविरकल्पिकादेः भिक्षोः (नो कप्पइ बग्घारियवुट्टिकायंसि ) न कल्पते अविच्छिन्नधाराभिः वृष्टिकाये निपतति-यस्यां वर्षाकल्पो नीव्रं वा श्रवति कल्पं वा भिवाऽन्तः कार्य वा आर्द्रयति तत्र [ गाहावइकुल भत्ताए वा पाणाए वा निक्खभित्तए वा पविसित्तए वा ] गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा
वृष्टौ भिक्षागमनादि
विधिः स
२८-३१
॥१८१॥

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398