Book Title: Kalpsutram
Author(s): Vinayvijay,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
कल्प-मुबो
पर्युषणा भाद्रपद तिबद्धा ॥१७॥
॥१७॥
BRECERBIBASTI
भावे तु पञ्चपञ्चदिनवृद्धया दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपश्चदश्यां एव, गृहिज्ञाता तु द्वेधा-सांवत्सरिककृत्यविशिष्टा गृहिज्ञातमात्रा च, तत्र सांवत्सरिककृत्यानि-संवत्सरप्रतिक्रान्ति १ लञ्चनं २ चाष्टमं तपः३। सार्हद्भक्तिपूजा ४ च, सङ्घस्य क्षामणं मिथः५॥१॥ एतत्कृत्यविशिष्टा भाद्रसितपञ्चम्यां एव, कालिकाचार्यादेशाचतुर्थ्यामपि, केवलं गृहिज्ञाता तु सा यत् अभिवद्धिते वर्षे चतुर्मासदिनादारभ्य विंशत्या दिनर्वयमत्र स्थिताः स्मेति पृच्छता गृहस्थानां पुरो वन्दन्ति, तदपि जैनटिप्पनकानुसारेण, यतस्तत्र युगमध्ये पौषो युगान्ते चाषाढो वर्द्धते, नान्ये मासाः, तहिपनकं तु अधुना सम्यग् न ज्ञायते, ततः पञ्चाशतैव दिनैः पर्युषणा युक्तेति 'वृद्धाः । अत्र कश्चिदाह-ननु श्रावणवृद्धौ द्वितीयश्रावणसितचतुर्थ्यामेव पर्युषणा युक्ता, न तु भाद्रसितचातुझ्, दिनानां अशीत्यापत्तेः 'वासाणं सवीसहराए मासे विइक्कते' इति वचनबाधा स्यादिति चेत् , मैवं, अहो देवानुप्रिय ! एवं आश्विनवृद्धौ चतुर्मासककृत्यं द्वितीयाश्विनसितचतुर्दश्यां कर्त्तव्यं स्यात् , कार्तिकसितचतुदश्यां करणे तु दिनानां शतापत्त्या 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते सत्तरिराईदिएहिं सेसेहि' इति समवायाङ्गवचनबाधा स्यात् , न च वाच्यं चतुर्मासिकानि हि आषाढादिमासप्रतिबद्धानि, तस्मात् कार्तिकचतुर्मासकं कार्तिकसितचतुर्दश्यामेव युक्तं, दिनगणनायां त्वधिको मासः कालचूलेत्यविवक्षणादिनानां सप्ततिरेवेति कुतः समवायाङ्गवचनबाधा इति ?, यतो यथा चतुर्मासकानि आषाढादिमासप्रतिब
१ श्रावणादिवृद्धावेतत् पौषादिवृद्धिप्रसंगागतं वासापेक्ष च वाक्यं प्रदर्शयन् प्रकरणगन्धस्याप्यज्ञ इत्यपकर्णनीयः,अधिकानामविवक्षयाऽप्येतत् ।
AKSHARASHTRA

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398