Book Title: Kalpsutram
Author(s): Vinayvijay,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
M
RECARE
दृश्यवाचननिषेधा सू.१९
A
इति प्राग्वत् स्थविराणां तथाप्रकाराणि-अजुगुप्सितानि कुलानि-गृहाणि, किंविशिष्टानि ?-(कडाई) तैरन्यैर्वा श्रावकीकृतानि (पत्तिआई) प्रीतिकराणि (थिजाइं) प्रीतौ दाने वा स्थैर्यवन्ति (वेसासियाई) निश्चित अत्र लप्स्येऽहमिति विश्वासो येषु तानि वैश्वासिकानि ( सम्मयाई) येषां यतिप्रवेशः सम्मतो भवति तानि सम्मतानि (बहुमयाई) बहवोऽपि साधवः सम्मता येषां अथवा बहूनां गृहमनुष्याणां साधवः सम्मता येषु तानि बहुमतानि (अणुमयाई भवंति) अनुमतानि-दानं (प्रति) अनुज्ञातानि अथवा अणुरपि-क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणत्वात् , न तु मुखं दृष्ट्वा तिलकं कुर्वन्तीति अनुमतानि अणुमताणि वा भवन्ति ( तत्थ से नो कप्पइ अदक्खु वइत्तए) तत्र-तेषु गृहेषु 'से' तस्य साधोः याच्यं वस्तु अदृष्ट्वा इति वक्तुं न कल्पते (अस्थि ते
आउसो! इमं वा) यथा हे आयुष्मन् ! इदं इदं वा वस्तु अस्ति? इति, अदृष्टं वस्तु प्रष्टुं न कल्पते इत्यर्थः ( से | किमाहु भंते!) तत् कुतो भगवन् ! इति शिष्यप्रश्ने गुरुराह-यतस्तथाविधः (सड्डो गिही गिण्हइ वा तेणियंपि कुन्जा) श्रद्धावान् गृही मूल्येन गृह्णीत, यदि च मूल्येनापि न प्राप्नोति तदा स श्रद्धातिशयेन चौर्यमपि कुर्यात, कृपणगृहे तु अदृष्ट्वाऽपि याचने न दोषः ॥ (१९)।।
(वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निचभत्तियस्स भिक्खुस्स) नित्यमेकाशनकारिणः भिक्षोः (कप्पड़ एगं गोअरकालं गाहावइकुलं) कल्पते एकस्मिन् गोचरचर्याकाले गाथापतेः-गृहस्थस्य कुलंगृहं (भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) भक्तार्थ वा पानार्थ वा निष्क्रमितु वा प्रवेष्टुं
HASHPERES

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398