Book Title: Kalpsutram
Author(s): Vinayvijay, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 363
________________ वा निमित्त वा पविसित्तए वा) तदा तस्य साधोः कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्र मितुं वा प्रवेष्टुं वा ॥ (२१) | ( वासावासं पज्जोम वियस्स) चतुर्मासकं स्थितस्य (छट्टभत्तियस्स भिक्खुस्स ) नित्यं षष्टकारिणः भिक्षोः (कप्पंति दो गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्वमित्त वा पविसित्तए वा) कल्पेते द्वौ गोचरकालौ गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ (२२) | (वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( अट्टमभत्तियस्स भिक्खुस्स ) नित्यं अष्टमकारिणः भिक्षोः (कप्पंति तओ गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) कल्पन्ते त्रयो गोचरकालाः गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ( २३ ) | ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( विभित्तियस्स भिक्खुस्स कप्पंति सव्वेऽवि गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्त वा पविसित्तए वा ) नित्यं अष्टमादुपरि तपःकारिणः भिक्षोः कल्पन्ते सर्वेऽपि गोचरकालाः गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, यदा इच्छा भवति तदा भिक्षते, न तु प्रातर्गृहीतमेव धारयेत्, सश्चयजीव संसक्तिसर्पाघ्राणादिदोषसम्भवात् ॥ ( २४ ) ॥ एवमाहारविधिमुक्त्वा पानकविधिमाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निञ्चभत्तियस्स भिक्खुस ) नित्यं एकाशनकारिणः भिक्षोः (कप्पंति सव्वाई पाणगाइं पडिगाहित्तए) कल्पते सर्वाणि पानकानि प्रतिग्रहीतुं सर्वाणि च आचाराङ्गोक्तानि एकविंशतिः, अत्र वक्ष्यमाणानि नव वा, तत्राचाराङ्गोक्तानि इमानि - मोचरचर्याबेलानियमः सू. २०-२४

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398