SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ वा निमित्त वा पविसित्तए वा) तदा तस्य साधोः कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्र मितुं वा प्रवेष्टुं वा ॥ (२१) | ( वासावासं पज्जोम वियस्स) चतुर्मासकं स्थितस्य (छट्टभत्तियस्स भिक्खुस्स ) नित्यं षष्टकारिणः भिक्षोः (कप्पंति दो गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्वमित्त वा पविसित्तए वा) कल्पेते द्वौ गोचरकालौ गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ (२२) | (वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( अट्टमभत्तियस्स भिक्खुस्स ) नित्यं अष्टमकारिणः भिक्षोः (कप्पंति तओ गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) कल्पन्ते त्रयो गोचरकालाः गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ( २३ ) | ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( विभित्तियस्स भिक्खुस्स कप्पंति सव्वेऽवि गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्त वा पविसित्तए वा ) नित्यं अष्टमादुपरि तपःकारिणः भिक्षोः कल्पन्ते सर्वेऽपि गोचरकालाः गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, यदा इच्छा भवति तदा भिक्षते, न तु प्रातर्गृहीतमेव धारयेत्, सश्चयजीव संसक्तिसर्पाघ्राणादिदोषसम्भवात् ॥ ( २४ ) ॥ एवमाहारविधिमुक्त्वा पानकविधिमाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निञ्चभत्तियस्स भिक्खुस ) नित्यं एकाशनकारिणः भिक्षोः (कप्पंति सव्वाई पाणगाइं पडिगाहित्तए) कल्पते सर्वाणि पानकानि प्रतिग्रहीतुं सर्वाणि च आचाराङ्गोक्तानि एकविंशतिः, अत्र वक्ष्यमाणानि नव वा, तत्राचाराङ्गोक्तानि इमानि - मोचरचर्याबेलानियमः सू. २०-२४
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy