Book Title: Kalpsutram
Author(s): Vinayvijay, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 355
________________ मासवृद्धि चर्चाकल्प व्यवस्था तथाऽत्रापि, एवं तर्हि अप्रमाणे मासे देवपूजामुनिदानावश्यकादि कार्यमपि न कार्य इत्यपि वक्तुं माऽधरौष्ठं चपलेय, यतो यानि हि दिनप्रतिवद्धानि देवपूजामुनिदानादिकृत्यानि तानि तु प्रतिदिनं कर्तव्यान्येव, यानि च सन्ध्यादिसमयप्रतिबद्धानि आवश्यकादीनि तान्यपि यं कञ्चन सन्ध्यादिसमयं प्राप्य कर्तव्यान्येव, यानि तु भाद्रपदादिमासप्रतिबद्धानि तानि तु तदद्वयसम्भवे कस्मिन् क्रियते इति विचारे प्रथमं अवगणय्य द्वितीये क्रियते इति सम्यग् विचारय । तथा च पश्य अचेतना वनस्पतयोऽपि अधिकमासं नाङ्गीकुर्वते, येनाधिकमासे || प्रथमं परित्यज्य द्वितीय एव मासे पुष्प्यन्ति, यदुक्तं आवश्यकनियुक्तो-"जैइ फुल्ला कणिआरडा चूअग ! अहिमासयंमि घुटुंमि । तुह न खमं फुल्लेउं ज़ह पञ्चंता करिति डमराई ॥१॥" तथा च कश्चित् 'अभिवड्डिअंमि वीसा इअरेसु सवीसई मासे ' इति वचनबलेन मासाभिवृद्धौ विंशत्या दिनैरेव लोचादिकृत्यविशिष्टां पर्युषणां ६ करोति, तदप्ययुक्तं, येन 'अभिवडिअंमि वीसा' इति वचनं गृहिज्ञातमात्रापेक्षया, अन्यथा 'आसाढपुण्णिमासीए पज्जोसविंति एस उस्सग्गो, सेसकालं 'पज्जोसविताणं अववाउ'त्ति श्रीनिशीथचूर्णिदशमोद्देशकवचनादाषाढपू र्णिमायामेव लोचादिकृत्यविशिष्टा पर्युषणा कर्तव्या स्यात् , इत्यलं प्रसङ्गेन ॥ तत्र कल्पोक्ता द्रव्य १ क्षेत्र २. काल ३ भाव ४ स्थापना चैव-द्रव्यस्थापना तृणडगलछारमल्लकादीनां परिभोगः सचित्तादीनां च परिहारः, तत्र सचित्तद्रव्यं शैक्षो न प्रव्राज्यते अतिश्रद्धं राजानं राजामात्यं च विना, अचित्तद्रव्यं च वस्त्रादि न गृह्यते, १ किं तिथिवृद्धौ नोत्तरतिथी पाप ?, विचारय । २ यदि पुष्पिताः कणवीराः चूत ! अधिकमासे घुष्टे । तव न क्षमं पुष्पितुं यदि प्रत्यंताः कुर्वन्ति डमरादि । EKASHISHASHA CCASIA CE

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398