________________
मासवृद्धि चर्चाकल्प व्यवस्था
तथाऽत्रापि, एवं तर्हि अप्रमाणे मासे देवपूजामुनिदानावश्यकादि कार्यमपि न कार्य इत्यपि वक्तुं माऽधरौष्ठं चपलेय, यतो यानि हि दिनप्रतिवद्धानि देवपूजामुनिदानादिकृत्यानि तानि तु प्रतिदिनं कर्तव्यान्येव, यानि च सन्ध्यादिसमयप्रतिबद्धानि आवश्यकादीनि तान्यपि यं कञ्चन सन्ध्यादिसमयं प्राप्य कर्तव्यान्येव, यानि तु भाद्रपदादिमासप्रतिबद्धानि तानि तु तदद्वयसम्भवे कस्मिन् क्रियते इति विचारे प्रथमं अवगणय्य द्वितीये
क्रियते इति सम्यग् विचारय । तथा च पश्य अचेतना वनस्पतयोऽपि अधिकमासं नाङ्गीकुर्वते, येनाधिकमासे || प्रथमं परित्यज्य द्वितीय एव मासे पुष्प्यन्ति, यदुक्तं आवश्यकनियुक्तो-"जैइ फुल्ला कणिआरडा चूअग !
अहिमासयंमि घुटुंमि । तुह न खमं फुल्लेउं ज़ह पञ्चंता करिति डमराई ॥१॥" तथा च कश्चित् 'अभिवड्डिअंमि वीसा इअरेसु सवीसई मासे ' इति वचनबलेन मासाभिवृद्धौ विंशत्या दिनैरेव लोचादिकृत्यविशिष्टां पर्युषणां ६ करोति, तदप्ययुक्तं, येन 'अभिवडिअंमि वीसा' इति वचनं गृहिज्ञातमात्रापेक्षया, अन्यथा 'आसाढपुण्णिमासीए
पज्जोसविंति एस उस्सग्गो, सेसकालं 'पज्जोसविताणं अववाउ'त्ति श्रीनिशीथचूर्णिदशमोद्देशकवचनादाषाढपू र्णिमायामेव लोचादिकृत्यविशिष्टा पर्युषणा कर्तव्या स्यात् , इत्यलं प्रसङ्गेन ॥ तत्र कल्पोक्ता द्रव्य १ क्षेत्र २. काल ३ भाव ४ स्थापना चैव-द्रव्यस्थापना तृणडगलछारमल्लकादीनां परिभोगः सचित्तादीनां च परिहारः, तत्र सचित्तद्रव्यं शैक्षो न प्रव्राज्यते अतिश्रद्धं राजानं राजामात्यं च विना, अचित्तद्रव्यं च वस्त्रादि न गृह्यते, १ किं तिथिवृद्धौ नोत्तरतिथी पाप ?, विचारय । २ यदि पुष्पिताः कणवीराः चूत ! अधिकमासे घुष्टे । तव न क्षमं पुष्पितुं यदि प्रत्यंताः कुर्वन्ति डमरादि ।
EKASHISHASHA
CCASIA
CE