________________
कल्प-सुबोध्या०९ ॥१७॥
द्वितीयमाद्रपदे पर्युषणा ॥१४॥
MACHARBASAN
साहूण' मित्यादि श्रीनिशीथचूर्णिदशमोद्देशके, एवं यत्र कुत्रापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव, न तु काप्यागमे 'भद्दवयसुद्धपंचमीए पज्जोसविजईत्ति पाठवत् 'अभिवड्डिअवरिसे सावणसुद्धपंचमीए पज्जोसविनईत्ति पाठ उपलभ्यते, ततः कार्तिकमासप्रतिबद्धचतुर्मासककृत्यकरणे यथा नाधिकमासः प्रमाणं तथा भाद्रमासप्रतिबद्धपर्युषणाकरणेऽपि नाधिकमासः प्रमाणमिति त्यज कदाग्रह, किंच-अधिकमासः किं काकेन भक्षितः:१ किं वा तस्मिन् मासे पापं न लगति ? उत बुभुक्षा न लगति ? इत्याद्युपहसन् मा स्वकीयं ग्रहिलत्वं प्रकटय,यतस्त्वमपि अधिकमासे सति त्रयोदशसु मासेषु जातेष्वपि सांवत्सरिकक्षामणे 'बारसहं मासाणं' इत्यादिकं वदन्नधिकमासं नाङ्गीकरोषि, · एवं चतुर्मासिकक्षामणेऽधिकमाकसद्भावेऽपि १'चउण्हं मासाण'मित्यादि पाक्षिकक्षामणेऽधिकतिथिसम्भवेऽपि 'पन्नरसण्हं दिवसाण' मिति च ब्रूषे, तथा नवकल्पविहारादि| लोकोत्तरकार्येषु 'आसाढे मासे दुपया' इत्यादिसूर्यचारे लोकेऽपि दीपालिकाऽक्षततृतीयादिपर्वसु धनकला-1 न्तरादिषु च अधिकमासो न गण्यते तदपि त्वं जानासि, अन्यच्च-सर्वाणि शुभकार्याणि अभिवर्द्धिते मासे नपुंसक इति कृत्वा ज्योतिःशास्त्रे निषिद्धानि,अपरं च--आस्तामन्योऽभिदर्द्धितो भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽपि | अप्रमाणमेव, यथा चतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते
१ तेरसहं मासाणं इत्यादि पंचण्डं मासाणं इत्यादि च वदन् कश्चित् शास्त्राणां स्वाचारस्यापि च विराधकः, पञ्चमासिकसाधिकमाससांवत्सरिकप्रतिक्रमणकथनापत्तेः, पझे च प्राचेण दिनानां सदैवानियमः, यवनवदगेव च प्रत्यमिवर्धितमागमनं कार्य मासे मासे ।
CHA