Book Title: Kalpsutram
Author(s): Vinayvijay,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
करल-मुबो
AACHANA
अनेरुत्प तिःशिल्पदर्शनम् ॥१५॥
निष्पादयेत्याज्ञासमनन्तरमेव रत्नसुवर्णमयभवनपङ्क्तिप्राकारोपशोभितां नगरीमवासयत्, ततो भगवान राज्ये हस्त्यश्वगवादिसङ्ग्रहपुरस्सरं उग्रभोगराजन्यक्षत्रियलक्षणानि चत्वारि कुलानि व्यवस्थापितवान् , तत्रोपदण्डकारित्वादुग्रा आरक्षकस्थानीयाः १ भागार्हत्वाद् भोगा गुरुस्थानीयाः २ समानवयस इतिकृत्वा राजन्या वयस्यस्थानीयाः ३ शेषाः प्रधानप्रकृतितया क्षत्रियाश्च ४ । तदा च कालपरिहाण्या ऋषभकुलकरकाले कल्पद्रुमफललाभाभावेन ये इक्ष्वाकास्ते इक्षुभोजिनः शेषास्तु प्रायः पत्रपुष्पफलभोजिनोग्नेरभावाचापक्कशाल्याद्यौः षधीभोजिनश्चाभूवन् , कालानुभावात्तदजीणे च स्वल्पं स्वल्पतरं च भुक्तवन्तः तस्याप्यजीर्णे भगवदूचसा हस्ताभ्यां घृष्ट्वा त्वचं अपनीय भुक्तवन्तः, तथाप्यजीण प्रभुपदेशात् पत्रपुटे जलेन क्लेदयित्वा तण्डुलादीन् भुक्तवन्तः, एवमप्यजीर्णे कियतीमपिवेलां हस्ततलपुटे क्लेदयित्वा हस्ततलपुटे संस्थाप्य, पुनरप्यजीणे कक्षासु स्वेद. यित्वा, तथाप्यजीणे हस्ताा घृष्ट्वा पत्रपुटे क्लेदयित्वा हस्तातलपुटे संस्थाप्येत्यादिबहुप्रकारैरन्नभोजिनो बभूवांसः। एवं सत्येकदा द्रुमघर्षणान्नवोत्थितं प्रवृद्धज्वलज्ज्वालं तृणकलापंकवलयन्तं अग्निमुपलभ्याभिनवरत्नबुद्धया प्रसारितकरा दह्यमाना भयभीताः सन्तो युगलिनो भगवन्तं विज्ञपयामासुः, भगवता चाग्नेरुत्पत्तिं विज्ञाय भो युगलिका ! उत्पनोऽग्निः अत्र च शाल्याद्यौषधीनिधाय भुङ्गध्वं यतस्ताः सुखेन जीर्यन्तीत्युपाये कथितेऽ. प्यनभ्यासात् सम्यगुपायं अजानाना औषधीरग्नौ प्रक्षिप्य कल्पद्रोः फलानीव याचन्ते अग्निना च ताः सर्वतो दद्यमाना हष्ट्रा अयं पापात्मा वेनाल इवातृप्तः स्वयमेव सर्व भक्षयति नास्माकं किश्चित् प्रयच्छतीत्यतोऽस्या
C%20-SHUKRABAR
+
5

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398