Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 7
________________ जैनेन्द्रव्याकरणम् । सभागकार्यापेक्षया। अत्रापि तर्हि स्वरूपपररूपापेक्षया स्तित्वनास्तित्वे । द्रव्यपर्यायापेक्षया च नित्यत्वानित्यत्वे । द्रव्यपर्याययोश्चान्वयव्यतिरेकाभ्यां सिद्धिरित्यास्तां तावदेतत् । अनेकान्तादितीदमेव ज्ञापकं हेता कापि भवति । तेनानित्यः शब्दः कृनकत्वादित्यादि सिद्धम् । उत्तरसूत्रकदेशाद्याचााधिकार (?) इति वक्ष्यति । सस्थानक्रियं स्वमिति। एतच्च वस्तुना साधर्म्यवैधात्मकेऽनेकान्ते सत्युपपद्यते । तथाहि अकाराकारयोः इस्वदीर्घकालभेदेन वैधयेऽपि तुल्यस्थानकारणत्वेन साधर्म्यमस्तीति स्वसञ्ज्ञाव्यवहारः सियति । यदि हि साधर्म्यमेव स्यात् तदास्तित्वेनेवान्यैरपि धर्मः साधर्म्य सर्वमेक प्रसज्येत । यदि च वैधर्म्यमेव तदा कस्यचिदस्तित्वमपरस्य नास्तित्वमन्यस्य चान्यत् । अधुमृदिति अन्वयव्यतिरेकाभ्यामर्थवच्छब्दरूपं मृत्सज्ञकमनेकान्तात् सियति । तथाहि विभक्त्यन्तस्य च शब्दस्य प्रयोगादर्थे ज्ञानमुत्पद्यत इति सड्ढाता अर्थवन्तो दृष्टाः । तद्वयवानामप्यन्वयव्यतिरेकाभ्यामर्थवत्ता जायते । वृक्षावित्यत्र विसर्जनीयाभावादेकत्वार्थी निवृत्तः । कारभावाद् द्वित्वं जातम् । अकारान्तवृक्षशब्दान्वयाजातिरन्वयिनी प्रतीयते । अन्वयव्यतिरेको च भावावेकान्तवादे न स्तः। तथा पाये ध्रुवमपादानमित्यादिषट्कारकी नित्यक्ष णिकपक्षयो!पपद्यते ध्यपायध्रौव्याघभावात् । उक्तंच इदं फलमियं क्रिया करणमेतदेष क्रमो ___ व्ययोऽयमनुषगज फलमिदं दशेयं मम ॥ अयं सुहृदयं विषत्प्रयतदेशकालाविमा- . विति प्रतिवितर्कयन् प्रयतते बुसो नेतरः॥ -

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 463