________________
जैनेन्द्रव्याकरणम् । सभागकार्यापेक्षया। अत्रापि तर्हि स्वरूपपररूपापेक्षया स्तित्वनास्तित्वे । द्रव्यपर्यायापेक्षया च नित्यत्वानित्यत्वे । द्रव्यपर्याययोश्चान्वयव्यतिरेकाभ्यां सिद्धिरित्यास्तां तावदेतत् । अनेकान्तादितीदमेव ज्ञापकं हेता कापि भवति । तेनानित्यः शब्दः कृनकत्वादित्यादि सिद्धम् । उत्तरसूत्रकदेशाद्याचााधिकार (?) इति वक्ष्यति । सस्थानक्रियं स्वमिति। एतच्च वस्तुना साधर्म्यवैधात्मकेऽनेकान्ते सत्युपपद्यते । तथाहि अकाराकारयोः इस्वदीर्घकालभेदेन वैधयेऽपि तुल्यस्थानकारणत्वेन साधर्म्यमस्तीति स्वसञ्ज्ञाव्यवहारः सियति । यदि हि साधर्म्यमेव स्यात् तदास्तित्वेनेवान्यैरपि धर्मः साधर्म्य सर्वमेक प्रसज्येत । यदि च वैधर्म्यमेव तदा कस्यचिदस्तित्वमपरस्य नास्तित्वमन्यस्य चान्यत् । अधुमृदिति अन्वयव्यतिरेकाभ्यामर्थवच्छब्दरूपं मृत्सज्ञकमनेकान्तात् सियति । तथाहि विभक्त्यन्तस्य च शब्दस्य प्रयोगादर्थे ज्ञानमुत्पद्यत इति सड्ढाता अर्थवन्तो दृष्टाः । तद्वयवानामप्यन्वयव्यतिरेकाभ्यामर्थवत्ता जायते । वृक्षावित्यत्र विसर्जनीयाभावादेकत्वार्थी निवृत्तः । कारभावाद् द्वित्वं जातम् । अकारान्तवृक्षशब्दान्वयाजातिरन्वयिनी प्रतीयते । अन्वयव्यतिरेको च भावावेकान्तवादे न स्तः। तथा पाये ध्रुवमपादानमित्यादिषट्कारकी नित्यक्ष णिकपक्षयो!पपद्यते ध्यपायध्रौव्याघभावात् । उक्तंच
इदं फलमियं क्रिया करणमेतदेष क्रमो ___ व्ययोऽयमनुषगज फलमिदं दशेयं मम ॥ अयं सुहृदयं विषत्प्रयतदेशकालाविमा- . विति प्रतिवितर्कयन् प्रयतते बुसो नेतरः॥
-