________________
महावृत्तिसहितम् स्यैवंविधा श्रीन सम्भवतीति पारिशेष्यादहहारकस्य ग्रहणम् । यच्छन्दाभिहितार्थस्तच्छब्देन परामृश्यत इति तस्मै देवनन्दितपूजेशे स्वयम्भुवे नमः अस्त्वित्यध्याहारः देवाः सुराः तैनन्दिता अभिवर्द्धिता सा चासो पूजा च तस्या ईथ इति किपि कृने देवनन्दितपूजेट तथा स्वयमात्मना भवतीति स्वयम्भूः नमाशब्दयोगे सर्वत्र - वति ॥
लोके प्रसिद्धसाधुत्वानांशब्दानामन्वाख्यापनार्थमि दमारभ्यते। अन्वाख्यानं च प्रकृत्यादिविभागेन सामान्यविशेषलक्षणेन शब्दानां व्युत्पादनम् । तच्च शब्दार्थसम्बन्धान्तरेण न सम्भवति । शब्दार्थसम्बन्धसिडिश्चानेकान्ताधीनेत्यत आह ॥
सिद्धिरनेकान्तात् ॥ १॥ प्रकृत्यादिविभागेन व्यवहाररूपा श्रोत्रग्राह्यतया परमार्थतोपेता प्रकृत्यादिविभागेन च शब्दानां सिद्धिः अनेकान्ताद्भवतोत्याधिकार प्राशास्त्रपरिसमाप्तेर्वेदितव्यः । अस्तित्वनास्तित्वनित्यत्वसामान्यसामानाधिकरण्यविशेषणविशेष्यादिकोऽनेकः अन्तः स्वभावो यस्मिन् भावे सोऽयमनेकान्तः अनेकात्मा इत्यर्थः । तस्यावग्रहहावायधारणात्मकं प्रत्यक्षं तद्व्यवहारान्यथानुपपत्तेरितीदमनुमानंच साधकम् । अथास्तित्वनास्तित्वादीनां परस्परविरुडानां कथमैक्याधिकरण्यमसकोर्णरूपता च । यथा भवतामेकत्र हेता अन्वयव्यतिरेकयाः जनकयोरपि वा जन्यमानरूपरसापेक्षयोः सहकारित्वासहकारित्वयोः । अथ हेता सपक्षविपक्षापेक्षया रूपद्रयं रसे च सभागा
onomenon-
womens
siltupwanon