________________
महात्तिसहितम् सस्थानक्रियं स्वम् ॥ २ ॥ स्थानं ताल्बादि क्रिया स्पृकृतादिका समाना स्थाने क्रिया यस्य सामर्थ्यात् स्थानमपि समानं लभ्यते । अथवा समानं स्थानक्रिय यस्य समानस्येति योगविभा. गात् सादेशः । तत्स्थानक्रियं स्वसंज्ञं भवति । प्रात्मलाभमापद्यमाना वर्णास्तिष्ठन्त्यस्मिन्निति स्थानं वर्णोत्पत्तिस्थानमित्यर्थः । तदविधम् ॥
अधौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥ इति
द्रव्यस्य देशान्तरमाप्तिहेतुरान्तरः परिस्पन्दःक्रिया। सा चतुर्विधा । स्पृकृता ईषत्स्पृहता विवृतता ईषमितता चेति । ध्वनावुत्पद्यमाने यया स्थानानि स्पृशति सा. स्पृता । मनास्पर्श ईषत्स्कृता । दूरेण स्पर्श विवृतता। समोपेन स्पर्श ईषद्विवृतता । कस्य पुनः किं स्थानम् । अकुहविसर्जनीयाः कण्ठ्याः । हविसर्जनीयावुरस्यावेके पाम् । जिह्वामूलोयो जियः ॥ सर्व मुखस्थानमवर्णमेके मन्यन्ते । इशयच्वेदैतस्तालव्याः । एदैतो कण्ठतालव्या. वेकेषाम् । उप्वोदादुपध्मानीया ओष्ठ्याः । ओदौता कण्ठोष्ट्यावेकेषाम् । वकारो दन्तोष्व्यः । सकस्थानमेके वाञ्छन्ति । ऋटुरषा मूर्द्धन्याः। रेफेो दन्तमूल्य एकेषाम् । लुतु एकेषाम् । लतुलसा दन्त्याः । नासिक्योऽनु स्वारः । अमङगनाः स्वस्थानाः । नासिकास्थाना एके. षाम् । तेषां स्वसज्ञाप्राप्तिर्दोषः । स्पृथिः स्पृष्टुं स्पृधानुगतं करणं कृतिरुच्चारणमेषामिति स्पृष्टकरणा वर्गाः । ईषस्पृथकरणा अन्तस्थाः। ईषविवृतकरणा ऊष्माणः । वि.