Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 10
________________ matalab S O - - - महावृत्तिसहितम् चारणाः स्फसंज्ञा भवन्ति । समुदायवाक्यपरिसमाप्तिराश्रीयते तेन प्रत्येक स्फसज्ञा न भवति । हल इति जात्यपेक्षो बहुत्व निर्देशः तेन द्वयोर्वहूनां च स्फसज्ञा। शर्मकर्मेति रमा । इन्द्रश्चन्द्र इति नदाः । हल इति किम् । तितउः। तनेउः सन्वच्चेति डउः। अत्राकारोक रावनन्तरी ॥ स्फान्तखं प्रसज्येत । अनन्तरा इति किम् । पचति पनसम् । श्राद्यं रूपं प्रत्युदाहरणम् । पनसमि त्यत्र स्फादेःस्कोन्ते चेति सखं स्यात् । स्फइति वर्णपिएडेन सज्ञाकरणं किम् । एवंरूपः समुदायः स्फसज्ञो यथा स्यादित्येवमर्थम् । स्फप्रदेशाः स्फे रुः । लिडस्फात् किदित्येवमादयः ।। नासिक्यो ङः॥४॥ नासिकायां भवो वर्णः ङ सज्ञो भवति । नासिकायाश्चावर्णनगरयोर्नसादेशो ये विहितः । अमङणना उदाहरणम् । परस्परं स्वसझा स्यात् इति चेत् नैवम् । स्वस्थानप्रभवा एवामी उपचारान्नासिक्यत्वम् । यथा मुखप्रभवोऽपि स्वर उपचारादशे भवो वंश्य इत्यु च्यते। तथापि सति मुख्येऽनुस्वारे नासिक्ये कथमुपचरितग्रहणम् । तस्य संज्ञायां प्रयोजनं नास्तीत्यग्रहणम् । डसञ्जाकार्य शान्तो दान्त इति उस्य किझलो.ङ्गितीति दीत्वम् । नासिक्य इति किम् । तप्तम् । अनुदात्तोप देश इत्यादिना पुः खञ्च प्रसज्येत । पक्का पकवान् इत्यत्र ङस्य किझलोरिति दीत्वं स्यात् । वत्वस्य चासिद्धत्वात् अनुदात्तोपदेश इत्यादिना चुः खंच प्रसज्येत ॥ अधु मृत् ॥ ५॥ धुवर्जितमर्ववच्छब्दरूपं मृत्सङ्गं भवति । घोरर्थ acanmadianshund - -

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 463