________________
matalab
S
O
-
-
-
महावृत्तिसहितम् चारणाः स्फसंज्ञा भवन्ति । समुदायवाक्यपरिसमाप्तिराश्रीयते तेन प्रत्येक स्फसज्ञा न भवति । हल इति जात्यपेक्षो बहुत्व निर्देशः तेन द्वयोर्वहूनां च स्फसज्ञा। शर्मकर्मेति रमा । इन्द्रश्चन्द्र इति नदाः । हल इति किम् । तितउः। तनेउः सन्वच्चेति डउः। अत्राकारोक रावनन्तरी ॥ स्फान्तखं प्रसज्येत । अनन्तरा इति किम् । पचति पनसम् । श्राद्यं रूपं प्रत्युदाहरणम् । पनसमि त्यत्र स्फादेःस्कोन्ते चेति सखं स्यात् । स्फइति वर्णपिएडेन सज्ञाकरणं किम् । एवंरूपः समुदायः स्फसज्ञो यथा स्यादित्येवमर्थम् । स्फप्रदेशाः स्फे रुः । लिडस्फात् किदित्येवमादयः ।।
नासिक्यो ङः॥४॥ नासिकायां भवो वर्णः ङ सज्ञो भवति । नासिकायाश्चावर्णनगरयोर्नसादेशो ये विहितः । अमङणना उदाहरणम् । परस्परं स्वसझा स्यात् इति चेत् नैवम् । स्वस्थानप्रभवा एवामी उपचारान्नासिक्यत्वम् । यथा मुखप्रभवोऽपि स्वर उपचारादशे भवो वंश्य इत्यु च्यते। तथापि सति मुख्येऽनुस्वारे नासिक्ये कथमुपचरितग्रहणम् । तस्य संज्ञायां प्रयोजनं नास्तीत्यग्रहणम् । डसञ्जाकार्य शान्तो दान्त इति उस्य किझलो.ङ्गितीति दीत्वम् । नासिक्य इति किम् । तप्तम् । अनुदात्तोप देश इत्यादिना पुः खञ्च प्रसज्येत । पक्का पकवान् इत्यत्र ङस्य किझलोरिति दीत्वं स्यात् । वत्वस्य चासिद्धत्वात् अनुदात्तोपदेश इत्यादिना चुः खंच प्रसज्येत ॥
अधु मृत् ॥ ५॥ धुवर्जितमर्ववच्छब्दरूपं मृत्सङ्गं भवति । घोरर्थ
acanmadianshund
-
-