________________
memadebasintedindi
a
Donationalism
जैनेन्द्रव्याकरणम् । वतः पर्युदासाचार्थवत्त्वं लभ्यते । अर्थश्चाभिधेयो भावाभावरूपः । तत्र भावरूपो जातिगुणक्रियाद्रव्यभेदेन चतुर्विधः । गाः । शुक्लः । पाचकः । द्रव्यविवक्षायां जात्यादिनार्थवत्त्वम् । द्रव्याभिधाने तु द्रव्यगुणलिङ्गसंख्याकर्मादयः व्युपदिश्यन्ते । तेषां द्योतनाथ टाबादयः स्वादयश्चोत्पद्यन्ते । एवं डित्थो डवित्थः । कुण्डं पीठम् । अभावरूपाभिधाने । अभावो विनाशः । शशविषाणम् । अध्विति किम् । अहन् । मृत्वे नखं स्यात् । पर्युदासादर्थवदिति किम् । धनं वनम् । नकारावधेम॒त्सङ्ख्या नखं प्रसज्येत । लूः पूरिति क्यन्तस्य धुत्त्वेपि कृदन्तत्वात् मृत्सज्ञा । मृत्प्रदेशाः ड्याम्मृद् इत्येवमादयः॥
कृद्धत्साः ॥६॥ _कृदन्तं हृदन्तं ससज्ञकञ्च मृत्सङ्गं भवति ।। कृत् । ज्ञाता । ज्ञातव्यम् । हृत् । प्राजापत्यः । आकम्पनिः । सः । जिनधर्मः । साधुवृत्तम् । सिद्धे सत्यारम्भा नियमार्थः । नियमश्च विधिमुखप्रतिषेधकलमिति त्यान्तेषु कृद्धृदन्तस्यैव मृत्संज्ञा । इह मा भूत् । असिचन् । अभवन् । उत्पन्नानां स्वादीनामेकत्वादिनियम इत्यस्मिन् दर्शने स्वाद्युत्पत्तिः स्यात् । इह च काण्डे कुड्ये रमते राजकुलमिति प्रो नपीति मृत्वात्प्रादेशः स्यात् । सग्रहणमपि नियमार्थम् । अर्थवत्संघातानां ससंज्ञकस्यैव मृत्संज्ञा वाक्यस्य मा भूत् । साधुर्द्धम ब्रूते इति सुपो धुमृदोरिति सुपः उप्प्रसज्येत । सग्रहणात् तुल्यजातीयस्यैव सुवन्तसमुदायस्य वाक्यस्य निवृत्तिन प्रकृतित्यसमुदायस्य । तेन वा सुपो बहुःप्राक्त इति वहा के अकचि कृते बहुतृणं कुमारिका उच्चकैः पठतीति मृत्वं न निव
Ramndali