________________
महावृत्तिसहितम्
र्तते । ननु च सुप्तिङन्तं पदमित्यत्रान्तग्रहणादन्यत्र संज्ञाविधौ त्यग्रहणात्तदन्तविधिर्नास्तीत्युक्तं तत्कथं कृदन्तहृदन्तग्रहणम् । नायं संज्ञाविधिः पूर्वेण विहि तायाः मृत्संज्ञायाः नियमोऽयम् । अथवा सादिति षत्व प्रतिषेधादिह तदन्तविधिर्ज्ञायते । अन्यथा सादित्येतस्य केवलस्य मृत्वेनाद्यत इत्यनेनैव प्रतिषेधः सिडः स्यात् । अथ कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति कृद्य
1
समुदायवियर्थ न नियमार्थम् । तेन देवदन्तेन कृतमित्यादेः समुदायस्य मृत्वात् सुपो धुमृदोरिति सुपः उप्रसज्यते । नैष दोषः । साधनं कृता बहुलमित्यस्यानर्थक्यप्रसङ्गात् । सर्वशब्दानां व्युत्पत्तिरस्तीति अस्मिन् पक्षे पूर्व सूत्रे नास्त्युदाहरणं संज्ञार्थमेव तत् ॥ प्रो नपि ॥ १ ॥
मृदिति वर्तमानमर्थान्तान्तं सम्पद्यते । प्रादेशो भवति नपि वर्तमानस्य मृदः । नविति नपुंसकलिङ्गस्य संज्ञा पूर्वेषाम् । श्रियमतिक्रान्तं अतिश्रि । अतिरि । अतिवधु कुलम् । भतिनु जलम् । ईकारैकारी तालव्यैौ । ऊकारीकार च ओष्ट्या वस्माकन्तत्स्थानेऽन्तरतम इति परिभाबया अन्त्यस्याचः प्रादेशः । नपीति किम् | राजकुमारी । अग्रणीः । मृद इति किम् । रमते कुलम् । नन्वलिङ्गत्वादाख्यातस्यात्र प्रादेशाप्राप्तिरत एवात्रापि न प्रादेश: काण्डीभूतमिति । इह तर्हि मा भूत् काव्य तिष्ठतः कुव्ये तिष्ठत इति । अत्र मृदधिकारात् मृदमृदेोरेका देशाः मृन्न भवति ॥
स्त्रीगोनचः ॥ ८ ॥
न्यग्भूतो यः स्त्रीत्यः गे शब्दश्च तदन्तस्य मृदः