________________
जैनेन्द्रव्याकरणम् |
ह
प्रादेशो भवति । स्त्री इति स्वरितचिन्हित निर्देशात् स्त्रियामित्येवं विहितस्य ग्रहणम् । निष्कैौशाम्बिः । निर्मधुरः । उभयगतिरिह शास्त्रे । तेन एकविभक्तित्वादप्रधानत्वाच्च शास्त्रीय लौकिकश्व न्यत्त्वं गृह्यते | त्यग्रहणे यस्मात्स तदादेरितीयं परिभाषा स्त्रीत्यग्रहणात् नेष्यते । तेन प्रतितिलपीडनिः । अतिराजकुमारिः । चित्रगुः स्वेतगुः वातस्वादप्रधानत्वाच्च न्यत्वम् । स्त्री इति स्वरितचिन्हितग्रहण किम् । अतिलक्ष्मीः । श्रतिश्रीः । नीच इति किम् । साधु विद्या । सुगाः । इह राजकुमारीपुत्रः सुगोकुलमिति यदपेक्षं न्यत्वं तत्प्रति तदन्तत्वं नास्तीति न प्रादेशः । मृद इत्यधिकारः किमर्थः । कुमारीपुत्रः गोकुलं वेोक्तं न्यगिति प्रादेश: प्रसज्येत ॥ ईयसा वसे प्रतिषेधो वक्तव्यः ॥ * ॥ बयः श्रेयस्य यस्य बहुश्रेयसी पुरुषः । विद्यमानश्रेयसी । सान्तो विधिरनित्य इति ऋन्मेोरिति कयपि न भवति ॥ हृदुप्युप् ॥ ६ ॥
स्त्रीग्रहणं नीच इति चानुवर्तते । हृदुपि सति स्त्रीत्यस्य नीच उब्भवति ॥ आमलकम् । कुवलम् । वदरम् | आमलक्याः अवयवः फलं नित्यं दुशरादेरिति मयट् । इतराभ्यां प्राग् द्रोरण् । तयोरुष्फल इत्युप् । स्त्रीत्यस्य पूर्वेण प्रादेशे प्राप्ते उबनेन क्रियते । तस्य परेऽचः पूर्वविधाविति स्थानिवद्भाव, द्यस्य ड्यां चेत्यकारस्य खं प्राप्तमीविधिं प्रति स्थानिवद्भावप्रतिषेधान्न भवति । एवं पञ्चेन्द्रः । पञ्चशष्कुलः । पञ्चेन्द्राण्यो देवता अस्य हृदर्थइति षसः संख्यादीरश्चेति रसंज्ञः प्राग्द्रोरण तस्य रस्योवनपत्य इत्युप् । स्त्रीत्यस्यापि संन्नियेोगशिष्टानामन्यतरापाये उभयोरप्यभाव इत्यानको त्रिवृत्तिः । पञ्चभिः