________________
-
महात्तिसहितम् शष्कुलीभिः क्रोतः आर्हादणः रादुवखावित्युप् । हृदिति किम् । गौरीपुत्रः । सुप उबत्र । उपोति किम् । गार्गीत्वम् । नोच इत्येव । अवन्ती कुन्ती कुरू: । अवन्तेरपत्यं स्त्री द्विकुरुनाथजादसाज्यः इति ज्यः । तस्य कुन्त्यवन्तीकुरुभ्यःस्त्रियामित्युप् । इतो मनुष्यजातेरिति की। ऊत इति ऊ । अत्र उपि सतीत्युच्यमाने प्रसज्येत ॥
इद्गोण्याः ॥ १० ॥ इकार देशो भवति गोण्या हृदुपि सति ॥ पञ्चभिगोणीभिः क्रीतः पञ्चगोणिः। आर्हादको रादुबखावित्युपि कृते स्त्रीत्यस्य पूर्वेणापि प्राप्तेऽनेन इकारः । गोण्या इति सूत्रे प्रकृतप्रादेशेन सिडे इवचनं किम् । क्वचिदन्यत्रापि यथा स्यात् । पञ्चभिः सूचीभिः क्रीतः पञ्चसूचिः । सप्तसूचिः ॥
आकालो ऽच् प्रदीपः ॥ ११ ॥ __आ इति मात्रिकधिमात्रिकत्रिमात्राणां संहितया निर्देशः । प्रदीप इति सूत्रेऽस्मिन्सुविधिरि इति जस: स्थाने सुः । अश्रा अ ३ इत्येवं काल इव काले यस्य सोऽच यथासंख्यं प्रदीप इत्येवं संज्ञो भवति । अकालः। दद्धि । मधु । पित् । पाकालः। खट्टा । गौरी । वामोरूः । श्रा ३ कालः। आगच्छ भो माणव जिनदत्तान् इत्यादयः । कालग्रहणं प्रत्येक परिमाणार्थम् । ततः अकाल इति विशेषणात् भिन्नकालयोर्दीपयोर्ग्रहणं न भवति । अग्रहणं किमर्थम् । हलचां सहातनिवृत्त्यर्थम् । प्रतक्ष्य । तितउ च्छत्रमिति । प्रदीपप्रदेशाः प्रो नपीत्येवमादयः॥
अचश्च ॥ १२ ॥ परिभाषेयछ। अचः स्थाने ते प्रदीपसंज्ञका भवन्ति॥