________________
t enesintes
maami
जैनेन्द्रव्याकरणम् । प्रोनपीति । अतिनु । अतिथि। इच्छाता विशेषणविशेष्यभाव इति अजन्तस्य प्रादेशः । अच इति किम् । सुवाक्पूतकुलम् । हलःप्रो न भवति । दीरकृद् इति चीयते स्तूयते । अच इति किम् । भिद्यते । शमित्यामदादीरित्यत्र गृह्यमा. णेन शमादिनाज्विशिष्यत इत्यनजन्तस्यापि दीत्वम् । शाम्यति। वाक्यटः प इत्यत्रापि गृह्यमाणेन टिना अज्विशिष्यते। आगच्छ भा माणव जिनदत्तान् । अच इति किम् । धर्मवित् । तकारस्य मा भूत् । चकारः किमर्थः संज्ञाविधाने नियमार्थः । इह मा भूत् । द्यौः पन्थाः स धुभ्यां शुभिः ॥
उच्चनीचावुदात्तानुदात्तौ ॥ १३ ॥
अजितिवर्तते। उच्चैरुपलभ्यमानोऽच् उदात्तसंज्ञो भवति।नीचैरुपलभ्यमानेोऽनुदात्तसंज्ञो भवति ॥ स्थानकतमुच्चत्वं नीचत्वंच गुणः संज्ञिनो विशेषणम् । समान एव स्थाने ऊर्ड भागनिष्पन्नोऽच उदात्तसंज्ञो भवति नीचभागनिष्पन्नोऽनुदात्त इति ॥ नित्याः शब्दार्थसम्बन्धा इति पैरिष्यन्ते तेषां निरवयवस्य नित्यस्य शब्दस्य अवयवोप चयापचयाभावात् उदात्तादिव्यपदेशो न घटते सावयवस्वे च तेषामनित्यत्वं प्राप्नोति। न च नित्यस्य स्थानकार
व्यापारविशेषाद्विशेषः प्रसज्यते । क्षणिकपक्षेऽपि नैका नित्या स्वरजातिरस्ति यामपेक्ष्यायमत्रोचैरयं नीचैरिति परस्परापेक्षो व्यवहारो भवेत् तस्मादुक्तमनेकान्तमाश्रित्योदात्तादयः समर्थनीयाः । न च लोकप्रतीतेषु शन्देषु विभागेनोदात्तादयः प्रतीयन्ते केवलं शास्त्रे व्यवहारार्थ प्रति संज्ञायन्ते । भू इति उदात्तत्वादिट भविता। एध स्पर्द्ध इत्येतयारन्तोऽनुदात्तइति डनुदात्ततोह इति दो भवति ।
op