________________
१२
महावृत्तिसहितम् एधते । स्पईते । उदात्तानुदात्तप्रदेशेषु उच्चनीचगुणविशिस्य ग्रहणं प्रत्येतव्यम् ॥
__व्यामिश्रः स्वरितः ॥ १४ ॥ उच्चनीचगुणव्यामिश्रोऽच स्वरितसंज्ञो भवति॥ पच यजइत्यन्तस्य स्वरितत्वात् अस्व रितेतःकाप्यफल इति दो भवति । पचे। यजे । स्वरितप्रदेशाः स्वरितेनाधिकार इत्येवमादयः ।।
आदेगेप ॥ १५ ॥ प्रत्येकवाक्यपरिसमाप्तिराश्रीयते । प्रत्येकमादैचां वर्णानामैबित्येषा संज्ञा भवति । पारिशेष्यात्संज्ञासंज्ञिसम्बन्धो ज्ञायते । तथाहि नानथकमिदमाचार्यप्रामाण्यात् । साधनानुशासनमपि न सम्भवति। प्रादैचां प्रत्याहारे उपदेशात् । ऐपशब्दस्यापि मृत्संज्ञा सिडा । नापि पूर्वापरप्रयोगनियमार्थम् । सावैम्म इत्यन्यथापि प्रयोगदर्शनात् । स्थान्यादेशार्थमपि न सम्भवति । अवयात् । रायोहलि नावोरात् मृजेरै विति च उभयदर्शनात् । लिङ्गाभावान्नागमागमिभावः। विशेषणविशेष्यभावोऽपि प्रतीतपदार्थयोर्भवति नीलोत्पलबत् । एवमन्यस्यार्थस्यासम्भवात् संज्ञासंज्ञिसम्बन्धः । लघ्वक्षरा संज्ञा । प्रादैचामैपा भावितानामतद्भवितानाञ्च सामान्येन ऐप्संज्ञा । तद्भावितानामुदाहरणम् । नाडायनः। दैवदत्तिः। श्रीपगवः । अतड्रवितानाम् । मालामयम् । रैमयम् । नौमयम् । विकाराऽर्थे नित्यं दुशरादेरिति मयट । श्रादिति तपरकरणमैजर्थम् । तादपि परस्तपर इति । तेन तवैषा महौषधिरित्यादिषु त्रिमात्रचतुर्मात्राणां निवृत्तिः। आदैगैवित्यत्र सूत्रेऽस्मिन्