________________
-
-
emaledule
जैनेन्द्रव्याकरणम्। सुविधिरिष्ट इति जसः स्थाने सुः। ऐप्प्रदेशा मृजेबिति एवमादयः ॥
___ अदेडेप् ॥ १६ ॥ अदेड वर्णानां प्रत्येकमेबित्येषा संज्ञा भवति ॥ अत्राप्यतावितानां तद्भावितानामदेडामेप्संज्ञा । अतद्भावितानाम् । पचन्ति । पचे । एधन्ते । पद इति पररूपम् । तद्भावितानाम् । कर्ता । तरति । चेता । स्तोता। ऋकारस्येवैपप्रसङ्ग स्थानतोऽन्तरतमा अकाराकारी भवतः। तौ च प्रसज्यमानावेव रता। अदिति तपरकरणं दीपनि| वत्स्यथं एर्थच । तेन मालेयं खटोढा ॥त्रिमात्रचतुर्मात्राणां निवृत्तिः । एप्प्रदेशा मिदेरेवित्येवमादयः॥
इकस्तो ॥ १७ ॥ परिभाषेयम् । ऐबेपी संज्ञया विधीयमाना इक एव | स्थाने भवतः । स्थानिनियमोऽयं न विधिरिति । कुत एतत्। सक्थ्यस्थिदध्यदणामितीको निर्देशात् । एरपोलक्षणान्तरेण विधानाच्च । प्रत्यासत्ते पूर्व मेबुदाहरणे वक्ष्पति । गागयोः । करोति । नयति । भविता। सावैम्मो अकार्षीत् । अनैषीत् । अहार्षीत् । इच्छाता विशेषणविशेष्यभावः । मिदेरेबित्यत्र गृह्यमाणेन मिदादिना इग विशिष्यते। तेनानन्त्यस्य भवति । जुसि गागयोरिति च गृह्यमाणमिका विशिष्यते इतीगन्तस्य भवति । इक इति किम् । आत्मध्यक्षरव्यञ्जनानां मा भूत । यानम् । ग्लायति । उम्भिता । अजित्यनुवर्तनादैबेपोः सम्बन्धे सिद्ध तो ग्रहणं संज्ञाविधाने नियमार्थम् । द्यौः। पन्थाः। सः। यत्र स्थानी निर्दिश्यते तत्र नेदं व्याप्रियते । यथा भिणत्यच इति ॥