Book Title: Jain Sahitya Sanshodhak Khand 02 Ank 03 to 04
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna

View full book text
Previous | Next

Page 149
________________ ॥ अर्हम् ॥ नमोऽस्तु श्रमणाय भगवते महावीराय । श्रीमेरुतुङ्गाचार्यविरचिता विचारश्रेणिः - अपरनाम - स्थविरावलिः ' जं स्यणि कालगओ ' इति गाथाकदम्बके । श्रीमेरुतुङ्गसूरीन्द्रेयाख्यालेशो विधीयते चंदे चंदे अभिवढियम्मि चंदेऽभिहिए चेव । पंच रिसेहिं] जुगमिणं पन्नत्तं वयिरागेहिं | इति गाथोक्तयुक्त्या पञ्चवर्षैर्युगमुच्यते । तत्रादौ द्वादशमासैः प्रथम श्चन्द्रसंवत्सरः । पुनर्द्वादश मासैर्द्वितीयश्चन्द्रसंवत्सरः । तृतीयवर्षे पोषमासस्य वृद्धि:, अतस्त्रयोदश मासैस्तृतीयोऽभिवर्द्धितसंवत्सरः । ततो द्वादशमासैः पुनश्चतुर्थश्चन्द्रसंवत्सरः । पञ्चमे वर्षे आषाढमासस्य वृद्धि:, अतस्त्रयोदशमासैः पुनः पञ्चमोऽभिवर्द्धितसंवत्सरः । एवं च व्यवहारनयेन त्रिंशता मासैरधिकमासो लभ्यते । यतः सावण बहुलपडिव बालवकरणे अभीइनक्खत्ते । सव्वत्थ पढमसमए जुगस्स आई वियाणाहि ॥ इत्यागमवचनाज्जैने श्रावणादिः संवत्सरः । ततः प्रथमे चन्द्रवर्षे १२ मासाः, द्वितीयेऽपि १२, एवं २४ । ततोऽभिवर्द्धितवर्षस्य श्रावणदयः षट् । एवं ३० मासैः पोषवृद्धिः । ततोऽभिवर्द्धितस्यैव शेषा मासा' माघादयः षट् । ततश्चतुर्थे चन्द्रवर्षे १२, पञ्चमेऽपि वर्षे १२, एवं ३० । अत्राषाढवृद्धिः, अतोऽसौ पञ्चमोऽभिवर्द्धित इति । उक्तं च 1 पंच सहियं । 2 १ चंद्र० । ३ १२ मासैः । 4 २ चंद्र० । 5 १३ मासैः; 6 १२ मासैः । 7 त्रिंशत् मासैः । 8 इत्याद्यगम० । 9 नास्ति । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176