Book Title: Jain Darshan Atma dravya vivechanam Author(s): M P Patairiya Publisher: Prachya Vidya Shodh Academy Delhi View full book textPage 7
________________ सम्पादकीयम् इह खलु जगत्याग्रह्मस्तम्बपर्यन्तं सर्वेषां प्राणिना सुखाप्तये दुःखनिवृत्तये च निसर्गत एव प्रवृत्तिश्पते । निरतिशयसुखरूपा निरतिशयदुःखनिवृत्तिरूपा या याऽवस्था सैव मोक्षः । तदकस्थावाप्तिः ससारबीजभूतहेतूनां विनाशानन्तरमेव सम्भवति । तसिद्धिश्चाऽऽत्माऽनात्मविवेकं विना न सुकरेति निश्चचम् । श्रुतिरपि पुत्रं मातेव मुमुक्षुजनान्सन्मार्गे प्रवर्तयितु मोससाधनीभूतमात्मसाक्षात्काराय योजयति-'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निविध्यासितव्यः' (बृहदा० उ० २।४।६) इति । 'तरति शोकमात्मवित्' (छान्दोग्यो. ७।११३) इत्पादिश्रुतिवाक्यरप्यात्मतत्त्वस्य मोक्षोपादेयत्वं जोघुष्यते । लोकेऽपि सर्व. प्राणी प्रत्यगात्मास्तित्वं प्रत्येत्यहमस्मीति । न हि कश्चिदपि नाहमस्मीति विप्रतिपद्यते । तस्मादात्मतत्त्वमसन्दिग्धम् । तथापि धर्म प्रति विप्रतिपत्तयो बहुविधा इति विशेषप्रतिपत्तिरुपपद्यते । अत एव प्रमुखर्भारतीयदर्शनैरात्मतत्त्वस्य मोक्षावाप्तिसाधनभूततया तन्निरूपणं स्व-स्वसिद्धान्तभित्तीराश्रित्य व्यधायि । तथा हि- चतन्यविशिष्टो देह आत्मेति लोकायताः, क्षणभङ्गुरं सन्तन्यमानं विज्ञानमात्मेति बौद्धाः । कर्तृत्त्वादिविशिष्टः परमेश्वराद भिन्नो जीवात्मेति नैयायिका मन्वते । भोक्तं व केवलं, न कर्तेति सांख्या प्रतिजानते । चिद्र पः कर्तृत्त्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्योपनिषदा' स्वीकुर्वन्तीत्येतेषु सर्वेषु दर्शनेषु दुराग्रहप्रन्थिनिर्मोचकेनानेकान्तवादेन स्याद्वादसिद्धान्तेन चातिशयं वैशिष्ट्यं समादधता जैनदर्शनेन मोक्षमार्गाङ्गीभूतस्य सम्यग्ज्ञानस्याऽऽत्माऽनात्मविवेकरूपस्य स्वीकृतत्वादन स्मरूपविविधपदा निरूपणपुरस्सरमात्मतत्त्वस्य स्वरूपं प्रत्यपादि-इति जनदर्शनीयात्मतत्त्वनिरूपणप्रसङ्गेन समस्ताहंतदर्शनहार्दमेव प्रकाशयतो 'जनवर्शन मात्मव्यविवेचनम्' इति महच्छोधप्रबन्धस्य भारतीयदर्शनेषु प्रतिपादितात्मसम्बन्धिसिद्धान्तान् यथास्थानं सम्यग्निरूपयतश्च सर्वाङ्गीणत्वमव्याबाधं वरीवति -इति विविधपर्यालोचनानन्तरं प्राच्यविद्याशोधअकादम्यतद्ग्रन्थस्य शोधग्रन्थमालान्तर्गतं प्रकाशन प्राथम्येन स्वीकृतम् । प्रबन्धोऽयं दिल्लीस्थश्रीलालबहादुरशास्त्रिकेन्द्रीयसस्कृतविद्यापीठे जनदर्शनविभागाध्यक्षाणां डॉ० श्रीलालबहादुरशास्त्रिणां निर्देशने प्रस्तुतो वाराणसेय-संस्कृतविश्वविद्यालयस्य 'विद्यावारिधि' (Ph.D.)-उपाधये स्वीकृतश्च डॉ० श्रीमुक्ताप्रसादस्य शोधवचक्षण्यं व्यनक्ति।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 190