Book Title: Ilatiputra Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 5
________________ इलाती चरित्रं eeeeeeeeeeeeeeeeeeeeevee इत्यादि वैराग्यमेव भावयन् स्त्रीसंगं केवलं नरकप्रदमेव स मन्यतेस्म. अथेवं वैराग्यपरं निजपुत्रं त्रिव र्गशून्यमेव मन्यमानस्तस्य जडबुद्धिः पिता तं विषयकुशलं विधातुमिच्छतिस्म. अथासौ नगरमध्यात्का, मूल का श्चन दुर्ललितान् सप्तव्यसनोपेतान् वेश्यागमनप्रवीणान् यूनो निजपावे समालय कथयामास, भो पुरु-क॥३॥ पाः ! यूयमेनमिलातीपुत्रं. मम तनयं युष्मत्सार्थे गृहीत्वा स्त्रीविषयादिषु प्रवीणं कुरुध्वं ? तत्र च यद्रव्यादि युज्यते, तत्सर्वं ममाग्रतो ग्राह्य एवं तदुनानि वचनानि श्रुत्वा प्राप्तदुग्धा बिडाला इव प्रहृष्टमानसास्ते दुर्ललिताः कथयामासुः, भो श्रेष्ठिन् ! एतत्वस्माकं कार्यमेव, स्तोकेनैव कालेन वयमिममिलातीपुत्रं सर्वविषयेषु कुशलं करिष्यामः, अथ श्रेष्ठ्यपि तं निजपुत्रमिलातीपुत्रं समाहूय कथयामास, भो| पुत्र ! अद्यप्रभृति एते सज्जनास्तव मैत्री कर्तुं वांछंति, अतस्त्वमप्येभिः सह गत्वा सकलव्यवहारकुशलो | भव ? एते सर्वप्रकारेस्तव मानसमानंदयिष्यंति. एवं निजतातादिष्टःस इलातीपुत्रोऽपि तैःसह चलितः अथ ते दुललिता वसंतोत्सवे जातिकेतकीचंपकाशोकचूतादीनां प्रफुल्लकुसुमादिभिः सुरभीभृते उद्याने तमिलातीपुत्रं निन्युः. इतस्तत्र लंखिकाख्यनटस्यैका कन्यका तत्र नृत्यंती तेन राजपुत्रेण दृष्टा. सा च HAAVEEEEEEVEeeevee

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14